53. विस्फोटनिदानम्
विस्फोटनिदानं, सम्प्राप्तिश्च
अथ विस्फोटनिदानम् |
कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्षारैरजीर्णाध्यशनातपैश्च |
तथर्तुदोषेण विपर्ययेण कुप्यन्ति दोषाः पवनादयस्तु ||१||
त्वचमाश्रित्य ते रक्तमांसास्थीनि प्रदूष्य च |
घोरान् कुर्वन्ति विस्फोटान् सर्वान् ज्वरपुरःसरान् ||२||
विस्फोटसामान्यलिङ्गं, वातज-पित्तज-कफज-द्वन्द्वजविस्फोटलक्षणं च
अग्निदग्धनिभाः स्फोटाः सज्वरा रक्तपित्तजाः |
क्वचित् सर्वत्र वा देहे विस्फोटा इति ते स्मृताः ||३||
(सु. नि. अ. १३) |
शिरोरुक् शूलभूयिष्ठं ज्वरस्तृट् पर्वभेदनम् |
सकृष्णवर्णता चेति वातविस्फोटलक्षणम् ||४||
ज्वरदाहरुजास्रावपाकतृष्णाभिरन्वितम् |
पीतलोहितवर्णं च पित्तविस्फोटलक्षणम् ||५||
छर्द्यरोचकजाड्यानि कण्डूकाठिन्यपाण्डुताः |
अवेदनश्चिरात्पाकी स विस्फोटः कफात्मकः ||६||
वातपित्तकृतो यस्तु कुरुते तीव्रवेदनाम् |
कण्डूस्तैमित्यगुरुभिर्जानीयात् कफवातिकम् ||७||
कण्डूर्दाहो ज्वरश्छर्दिरेतैस्तु कफपैत्तिकः |८|
त्रिदोषजविस्फोटलक्षणम्
मध्ये निम्नोन्नतोऽन्ते च कठिनोऽल्पप्रपाकवान् ||८||
दाहरागतृषामोहच्छर्दिमूर्छारुजाज्वराः |
प्रलापो वेपथुस्तन्द्रा सोऽसाध्यः स्यात्त्रिदोषजः ||९||
रक्तजविस्फोटलक्षणं, साध्यासाध्यविचारश्च
रक्ता रक्तसमुत्थाना गुञ्जाविद्रुमसन्निभाः |
वेदितव्यास्तु रक्तेन पैत्तिकेन च हेतुना ||१०||
न ते सिद्धिं समायान्ति सिद्धैर्योगशतैरपि |
एकदोषोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः |
सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्रवः ||११||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने विस्फोटनिदानं समाप्तम् ||५३||