69. विषरोगनिदानम्

विषस्य स्थावरजङ्गमभेदेन द्वैविध्यम्
अथ विषरोगनिदानम् |
स्थावरं जङ्गमं चैव द्विविधं विषमुच्यते |
मूलाद्यात्मकमाद्यं स्यात् परं सर्पादिसम्भवम् ||१||

जङ्गमविषस्य सामान्यलिङ्गम्
निद्रां तन्द्रां क्लमं दाहमपाकं लोमहर्षणम् |
शोथं चैवातिसारं च जङ्गमं कुरुते विषम् ||२||
(च. चि. अ. २३) |३|

स्थावरविषस्य सामान्यलिङ्गम्
स्थावरं च ज्वरं हिक्कां दन्तहर्षं गलग्रहम् |
फेनच्छर्द्यरुचिश्वासं मूर्छां च कुरुते भृशम् ||३||
(च. चि. अ. २३) |४|

विषदातृलक्षणम्
इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः |
जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान् ||४||
न ददात्युत्तरं पृष्टो विवक्षुर्मोहमेति च |
अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत् ||५||
हसत्यकस्मात् स्फोटयत्यङ्गुलीर्विलिखेन्महीम् |
वेपथुश्चास्य भवति त्रस्तश्चान्योन्यमीक्षते ||६||
विवर्णवक्त्रो ध्यामश्च नखैः किञ्चिच्छिनत्त्यपि |
आलभेतासनं दीनं करेण व शिरोरुहम् ||७||
वर्तते विपरीतं च विषदाता विचेतनः |
(सु. क. अ. १) |

मूलविष-पत्रविष-फलविष- पुष्पविष-त्वक्सारनिर्यासविष- क्षीरविष-धातुविषलक्षणम्
उद्वेष्टनं मूलविषैः प्रलापो मोह एव च ||८||
जृम्भणं वेपनं श्वासो मोहः पत्रविषेण तु |
मुष्कशोथः फलविषैर्दाहोऽन्नद्वेष एव च ||९||
भवेत् पुष्पविषैश्छर्दिराध्मानं श्वास एव च |
त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि ||१०||
आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः |
फेनागमः क्षीरविषैर्विड्भेदो गुरुगात्रता ||११||
हृत्पीडनं धातुविषैर्मूर्छा दाहश्च तालुनि |
प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् ||१२||
(सु. क. अ. २) |

विषलिप्तशस्त्रहतलिङ्गम्
सद्यःक्षतं पच्यते यस्य जन्तोः स्रवेद्रक्तं पच्यते चाप्यभीक्ष्णम् |
कृष्णीभूतं क्लिन्नमत्यर्थपूति क्षतान्मांसं शीर्यते चापि यस्य ||१३||
तृष्णा मूर्छा ज्वरदाहौ च यस्य दिग्धाहतं तं पुरुषं व्यवस्येत् |
लिङ्गान्येतान्येव कुर्यादमित्रैर्व्रणे विषं यस्य दत्तं प्रमादात् ||१४||
सपीतं गृहधूमाभं पुरीषं योऽतिसार्यते |
फेनमुद्वमते चापि विषपीतं तमादिशेत् ||१५||
(सु. क. अ. ३) |

भोगिमण्डलिराजिलानां वातपित्तकफात्मकत्वम्
वातपित्तकफात्मानो भोगिमण्डलिराजिलाः |
यथाक्रमं समाख्याता द्व्यन्तरा द्वन्द्वरूपिणः ||१६||

भोगिप्रभृतिभिः कृतदंशेषु वातादीनां लिङ्गम्
दंशो भोगिकृतः कृष्णः सर्ववातविकारकृत् |
पीतो मण्डलिजः शोथो मृदुः पित्तविकारवान् ||१७||
राजिलोत्थो भवेद्दंशः स्थिरशोथश्च पिच्छिलः |
पाण्डुः स्निग्धोऽतिसान्द्रसृक् सर्वश्लेष्मविकारकृत् ||१८||

विशिष्टदेशादिदष्टस्यासाध्यत्वम्
अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु |
याम्ये च दष्टाः परिवर्जनीया ऋक्षे सिरामर्मसु ये च दष्टाः ||१९||
(सु. क. अ. ३) |

दर्वीकरविषस्याशुघातित्वम्, उष्णे विषस्य द्विगुणप्रभावं च
दर्वीकराणां विषमाशुघाति सर्वाणि चोष्णे द्विगुणीभवन्ति |२०|
(सु. क. अ. ३) |

अन्यावस्थास्वपि विषस्याशुघातित्वम्
अजीर्णपित्तातपपीडितेषु बालेषु वृद्धेषु बुभुक्षितेषु ||२०||
क्षीणक्षते मेहिनि कुष्ठयुक्ते रूक्षेऽबले गर्भवतीषु चापि |
(सु. क. अ. ३) |

अन्यावस्थासु विषस्यासाध्यत्वम्
शस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न सम्भवन्ति ||२१||
शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम् |
जिह्मं मुखं यस्य च केशशातो नासावसादश्च सकण्ठभङ्गः ||२२||
कृष्णः सरक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वं च विवर्जनीयः |
वर्तिर्घना यस्य निरेति वक्त्राद्रक्तं स्रवेदूर्ध्वमधश्च यस्य ||२३||
दंष्ट्रानिपाताश्चतुरश्च यस्य तं चापि वैद्यः परिवर्जयेच्च |
उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथ वा विवर्णम् ||२४||
सारिष्टमत्यर्थमवेगिनं च ज्ञात्वा नरं कर्म न तत्र कुर्यात् |
(सु. क. अ. ३) |

स्थावरजङ्गमविषाणां जीर्णत्वादिभिर्विशेषैर्दूषीविषत्वम्
जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा ||२५||
स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति |
(सु. क. अ. २) |

गुणहीनतायाः कार्येण दर्शनम्
वीर्याल्पभावान्न निपातयेत्तत् कफान्वितं वर्षगणानुबन्धि ||२६||
तेनार्दितो भिन्नपुरीषवर्णो वैगन्ध्यवैरस्ययुतः पिपासी |
मूर्छां भ्रमं गद्गदवाग्वमिं च विचेष्टमानोऽरतिमाप्नुयाद्वा ||२७||
(सु. क. अ. २) |

दूषीविषस्य स्थानविशेषेण विशिष्टलिङ्गम्
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी |
भवेत् समुद्ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः ||२८|| (सु. क. अ. २) |

रसादिधातुगतदूषीविषलक्षणम्
स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान् |
कोपं च शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तस्य रूपम् ||२९||
(सु. क. अ. २) |

दूषीविषकोपपूर्वरूपं, रूपं च
निद्रागुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवाऽङ्गमर्दम् |
ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठजन्म ||३०||
मांसक्षयं पादकरप्रशोथं मूर्छां तथा छर्दिमथातिसारम् |
दूषीविषं श्वासतृषाज्वरांश्च कुर्यात् प्रवृद्धिं जठरस्य चापि ||३१|| (सु. क. अ. २) |

दूषीविषस्य नानाविकारकारित्वम्
उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत् क्षपयेच्च शुक्रम् |
गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकारांश्च बहुप्रकारान् ||३२|| (सु. क. अ. २) |

पूर्वरूपलक्षणे दूषीविषनिरुक्तिः, दूषीविषस्य साध्यासाध्यविचारश्च
दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः |
यस्मात् सन्दूषयेद्धातून् तस्माद्दूषीविषं स्मृतम् ||३३||
साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम् |
दूषीविषमसाध्यं स्यात् क्षीणस्याहितसेविनः ||३४||
(सु. क. अ. २) |

गरलक्षणम्
सौभाग्यार्थं स्त्रियः स्वेदं रजो नानाङ्गजान् मलान् |
शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान् ||३५||
तैः स्यात् पाण्डुः कृशोऽल्पाग्निर्गरश्चास्योपजायते |
मर्मप्रधमनाध्मानं हस्तयोः शोथलक्षणम् ||३६||
जठरं ग्रहणीदोषो यक्ष्मा गुल्मः क्षयो ज्वरः |
एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत् ||३७||

लूताया उत्पत्तिर्निरुक्तिश्च
यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः |
तस्माल्लूतास्तु भाष्यन्ते सङ्ख्यया ताश्च षोडश ||३८||
(सु. क. अ. ८) |

लूतानां सामान्यलक्षणम्
ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च |
ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ||३९||
पिडका विविधाकारा मण्डलानि महान्ति च |
शोथा महान्तो मृदवो रक्ताः श्यावाश्चलास्तथा ||४०||
सामान्यं सर्वलूतानामेतद्दंशस्य लक्षणम् |
(सु. क. अ. ८) |४२|

दूषीविषाणां लूतानां लक्षणम्
दंशमध्ये तु यत् कृष्णं श्यावं वा जालकाचितम् ||४१||
ऊर्ध्वाकृति भृशं पाकं क्लेदशोथज्वरान्वितम् |
दूषीविषाभिर्लूताभिस्तद्दष्टमिति निर्दिशेत् ||४२||
(च. चि. अ. २३) |

असाध्यलूतानां लक्षणम्
शोथाः श्वेताः सिता रक्ताः पीता वा पिडका ज्वरः |
प्राणान्तिकाश्च जायन्ते श्वासहिक्काशिरोग्रहाः ||४३||
(च. चि. अ. २३) |

आखुदूषीविषलक्षणम्

आदंशाच्छोणितं पाण्डुमण्डलानि ज्वरोऽरुचिः |
लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते ||४४||
(च. चि. अ. २३) |

प्राणहरमूषिकलक्षणम्
मूर्छाङ्गशोथवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः |
शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यमूषिकैः ||४५||
(च. चि. अ. २३) |

कृकलासदष्टलिङ्गम्
कार्ष्ण्यं श्यावत्वमथवा नानावर्णत्वमेव वा |
मोहोऽथ वर्चसो भेदो दष्टे स्यात् कृकलासकैः ||४६||
(च. चि. अ. २३) |

वृश्चिकदष्टलिङ्गमसाध्यलक्षणं च
दहत्यग्निरिवादौ च भिनत्तीवोर्ध्वमाशु च |
वृश्चिकस्य विषं याति दंशे पश्चात्तु तिष्ठति ||४७||
दष्टोऽसाध्यश्च हृद्घ्राणरसनोपहतो नरः |
मांसैः पतद्भिरत्यर्थं वेदनार्तो जहात्यसून् ||४८||
(च. चि. अ. २३) |

कणभदष्टलिङ्गम्
विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि च |
लक्षणं कणभैर्दष्टे दंशश्चैवावसीदति ||४९||
(च. चि. अ. २३) |

उच्चिटिङ्गदष्टलक्षणम्
हृष्टलोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्तिमान् |
दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ||५०||
(च. चि. अ. २३) |

मण्डूकदष्टलक्षणं, सविषमत्स्यदष्टलक्षणं, सविषजलौकादष्टलिङ्गं च
एकदंष्ट्रार्दितः शूनः सरुजः पीतकः सतृट् |
छर्दिर्निद्रा च सविषैर्मण्डूकैर्दष्टलक्षणम् ||५१||
मत्स्यास्तु सविषाः कुर्युर्दाहं शोथं रुजं तथा |
कण्डूं शोथं ज्वरं मूर्छां सविषास्तु जलौकसः ||५२||
(च. चि. अ. २३) |

गृहगोधिकादष्टलिङ्गम्
विदाहं श्वयथुं तोदं स्वेदं च गृहगोधिका |५३|
(च. चि. अ. २३) |

शतपदीदष्टलिङ्गम्
दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम् ||५३||
(च. चि. अ. २३) |

मशकदष्टलक्षणम्
कण्डूमान् मशकैरीषच्छोथः स्मान्मन्दवेदनः |
असाध्यकीटसदृशमसाध्यं मशकक्षतम् ||५४||
(च. चि. अ. २३) |

मक्षिकादष्टलिङ्गम्
सद्यःप्रस्राविणी श्यावा दाहमूर्छाज्वरान्विता |
पिडका मक्षिकादंशे तासां तु स्थगिकाऽसुहृत् ||५५||
(च. चि. अ. २३) |

चतुष्पद्भिर्द्विपद्भिश्च कृतनखदन्तविषलक्षणम्
चतुष्पद्भिर्द्विपद्भिश्च नखदन्तविषं च यत् |
शूयते पच्यते वाऽपि स्रवति ज्वरयत्यपि ||५६||

विषोज्झितलक्षणम्
श्वशृगालतरक्ष्वर्क्षव्याघ्रादीनां यदाऽनिलः |
श्लेष्मप्रदुष्टो मुष्णाति सञ्ज्ञां सञ्ज्ञावहाश्रितः ||५७||
तदा प्रस्रस्तलाङ्गूलहनुस्कन्धोऽतिलालवान् [१९] |
अव्यक्तबधिरान्धश्च सोऽन्योन्यमभिधावति ||५८||
प्रमूढोऽन्यतमस्त्वेषां खादन् विपरिधावति |
तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु ||५९||
सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक् |
दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः ||६०||

जलत्रासलक्षणं, साध्यासाध्यलक्षणं च
येन चापि भवेद्दष्टस्तस्य चेष्टां रुतं नरः |
बहुशः प्रतिकुर्वाणः क्रियाहीनो विपश्यति ||६१||
दंष्ट्रिणा येन दष्टश्च तद्रूपं यस्तु पश्यति |
अप्सु चादर्शबिम्बे वा तस्य तद्रिष्टमादिशेत् ||६२||
त्रस्यत्यकस्माद्योऽभीक्ष्णं दृष्ट्वा स्पृष्ट्वाऽपि वा जलम् |
जलत्रासं तु तं विद्याद्रिष्टं तदपि कीर्तितम् ||६३||
अदष्टो वा जलत्रासी न कथञ्चन सिद्ध्यति |
प्रसुप्तो वोत्थितो वाऽपि स्वस्थस्त्रस्तो न सिद्ध्यति ||६४||
(सु. क. अ. ७) |

अविषक्षणम्
प्रशान्तदोषं प्रकृतिस्थधातुमन्नाभिकामं सममूत्रविट्कम् |
प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ||६५||
(सु. क. अ. ६) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने विषनिदानं समाप्तम् ||६९||