40. विद्रधिनिदानम्

विद्रधिसम्प्राप्तिः
अथ विद्रधिनिदानम् |
त्वग्रक्तमांसमेदांसि सन्दूष्यास्थिसमाश्रिताः |
दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ||१||
महामूलं रुजावन्तं वृत्तं वाऽप्यथवाऽऽयतम् |
स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ||२||
पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा |
षण्णामपि हि तेषां तु लक्षणं सम्प्रवक्ष्यते ||३||
(सु. नि. अ. ९) |

वातजविद्रधिलक्षणम्
कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः |
चित्रोत्थानप्रपाकश्च विद्रधिर्वातसम्भवः ||४||
(सु. नि. अ. ९) |

पित्तजविद्रधिलक्षणम्
पक्वोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान् |
क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः ||५||

कफजविद्रधिलक्षणम्
शरावसदृशः पाण्डुः शीतः स्निग्धोऽल्पवेदनः |
चिरोत्थानप्रपाकश्च विद्रधिः कफसम्भवः ||६||
(सु. नि. अ. ९) |

दोषविशेषेण विद्रधीनामास्रावभेदः
तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः |७|

सन्निपातजविद्रधिलक्षणम्
नानावर्णरुजास्रावो घाटालो विषमो महान् ||७||
विषमं पच्यते चापि विद्रधिः सान्निपातिकः |
(सु. नि. अ. ९) |

आगन्तुविद्रधेः सम्प्राप्तिपूर्वकं लक्षणम्
तैस्तैर्भावैरभिहते क्षते वाऽपथ्यकारिणः ||८||
क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् |
ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ||९||
आगन्तुर्विद्रधिर्ह्येष पित्तविद्रधिलक्षणः |१०|
(सु. नि. अ. ९) |

रक्तजविद्रधिलक्षणम्
कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाकरः ||१०||
पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते |११|
(सु. नि. अ. ९) |

आभ्यन्तरविद्रधिलक्षणम्
पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् ||११||
वल्मीकवत् समुन्नद्धमन्तः कुर्वन्ति विद्रधिम् |

आभ्यन्तरविद्रधेरधिष्ठानं
गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा ||१२||
वृक्कयोः प्लीह्नि यकृति हृदि वा क्लोम्नि वाऽप्यथ |

आभ्यन्तरविद्रधेरधिष्ठानविशेषेण विशेषलिङ्गानि च
तेषामुक्तानि लिङ्गानि बाह्यविद्रधिलक्षणैः ||१३||
अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः |
गुदे वातनिरोधश्च बस्तौ कृच्छ्राल्पमूत्रता ||१४||
नाभ्यां हिक्का तथाऽऽटोपः कुक्षौ मारुतकोपनम् |
कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्रधौ ||१५||
वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् |
सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते |
श्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः ||१६||
(सु. नि. अ. ९) |

विद्रधीनां स्रावनिर्गममार्गः
नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः |१७|
(सु. नि. अ. ९) |

विद्रधेः साध्यासाध्यविचारः
अधःस्रुतेषु जीवेत्तु स्रुतेषूर्ध्वं न जीवति ||१७||
हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः |
जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन ||१८||
(सु. नि. अ. ९) |
साध्या विद्रधयः पञ्च विवर्ज्यः सान्निपातिकः |
आमपक्वविदग्धत्वं तेषां शोथवदादिशेत् ||१९||
(वा. नि. अ. ११) |
आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृषान्वितम् |
रुजाश्वाससमायुक्तं विद्रधिर्नाशयेन्नरम् ||२०||
(सु. सू. अ. ३३) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने विद्रधिनिदानं समाप्तम् ||४०||