22. वातव्याधिनिदानम्
वातरोगस्य निदानं सम्प्राप्तिश्च
अथ वातव्याधिनिदानम्|
रूक्षशीताल्पलघ्वन्नव्यवायातिप्रजागरैः |
विषमादुपचाराच्च दोषासृक्स्रवणादपि ||१||
लङ्घनप्लवनात्यध्वव्यायामादिविचेष्टितैः |
धातूनां सङ्क्षयाच्चिन्ताशोकरोगातिकर्षणात् ||२||
वेगसन्धारणादामादभिघातादभोजनत् |
मर्माबाधाद्गजोष्ट्राश्वशीघ्रयानापतंसनात् ||३||
देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली |
करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रयान् ||४||
(च. चि. अ. २८) |
वातव्याधेः पूर्वरूपादयः
अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम् |
आत्मरूपं तु यद्व्यक्तमपायो लघुता पुनः ||५||
(च. चि. अ. २८) |
वातव्याधेः सामान्यलिङ्गं, वायोर्हेत्वादिविशेषाद्रोगविशेषकर्तृत्वं च
सङ्कोचः पर्वणां स्तम्भो भङ्गोऽस्थ्नां पर्वणामपि |
रोमहर्षः प्रलापश्च पाणिपृष्ठशिरोग्रहः ||६||
खाञ्ज्यपाङ्गुल्यकुब्जत्वं शोथोऽङ्गानामनिद्रता |
गर्भशुक्ररजोनाशः स्पन्दनं गात्रसुप्तता ||७||
शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम् |
भेदस्तोदोऽर्तिराक्षेपो मुहुश्चायास एव च ||८||
कुपितवायोः हेतुस्थानविशेषात् रोगविशेषकर्तृत्वम्
एवंविधानि रूपाणि करोति कुपितोऽनिलः |
हेतुस्थानविशेषाच्च भवेद्रोगविशेषकृत् ||९||
(च. चि. अ. २८) |
कोष्ठाश्रितवातलक्षणं, सर्वाङ्गकुपितवातलक्षणं च
तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः |
ब्रध्नहृद्रोगगुल्मार्शःपार्श्वशूलं च मारुते ||१०||
सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जनम् |
वेदनाभिः परीताश्च स्फुटन्तीवास्य सन्धयः ||११||
(च. चि. अ. २८) |
गुदस्थितवातलक्षणम् आमाशयस्थवातलक्षणं च
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः |
जङ्घोरुत्रिकपात्पृष्ठरोगशोषौ गुदे स्थिते ||१२||
रुक् पार्श्वोदरहृन्नाभेस्तृष्णोद्गारविसूचिकाः |
कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते ||१३||
(च. चि. अ. २८) |
पक्वाशयस्थवातलक्षणं श्रोत्रादिगतवातलक्षणं च
पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च |
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् ||१४||
श्रोत्रादिष्विन्द्रियवधं कुर्याद्दुष्टसमीरणः |
(सु. नि. अ. १) |
त्वग्गतवातलक्षणम्
त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते |
आतन्यते सरागा च पर्वरुक् त्वग्गतेऽनिले ||१५||
(च. चि. अ. २८) |
असृग्गतवातलक्षणम्
रुजस्तीव्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः |
गात्रे चारूंषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले ||१६||
(च. चि. अ. २८) |
मांसमेदोगतवातलक्षणं मज्जास्थिगतवातलक्षणं च
गुर्वङ्गं तुद्यतेऽत्यर्थं दण्डमुष्टिहतं यथा |
सरुक् श्रमितमत्यर्थं मांसमेदोगतेऽनिले ||१७||
भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः |
अस्वप्नः सन्तता रुक् च मज्जास्थिकुपितेऽनिले ||१८||
(च. चि. अ. २८) |
शुक्रस्थवातलक्षणम्
क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा |
विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः ||१९||
(च. चि. अ. २८) |
सिरागतवातलक्षणं स्नायुगतवातलक्षणं च
कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम् |
(सु. नि. अ. १) |
स बाह्याभ्यन्तरायामं खल्लीं कौब्ज्यमथापि वा ||२०||
सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः |
(च. चि. अ. २८) |
सन्धिगतवातलक्षणम्
हन्ति सन्धिगतः सन्धीन् शूलाटोपौ करोति च ||२१||
(सु. नि. अ. १७) |
पित्तकफावृतानां प्राणादीनां लक्षणानि
(प्राणोदानौ समानश्च व्यानश्चापान एव च |
स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम्) |
(सु. नि. अ. १) |
प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते |
दौर्बल्यं सदनं तन्द्रा वैरस्यं च कफावृते ||२२||
(सु. नि. अ. १) |
उदाने पित्तयुक्ते तु दाहो मूर्छा भ्रमः क्लमः |
अस्वेदहर्षौ मन्दोऽग्निः शीतता च कफावृते ||२३||
स्वेददाहौष्ण्यमूर्छाः स्युः समाने पित्तसंवृते |
कफेन सक्ते विण्मूत्रे गात्रहर्षश्च जायते ||२४||
अपाने पित्तयुक्ते तु दाहौष्ण्यं रक्तमूत्रता |
अधःकाये गुरुत्वं च शीतता च कफावृते ||२५||
व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः |
स्तम्भनो दण्डकश्चापि शूलशोथौ कफावृते ||२६||
(सु. नि. अ. १) |२७|
आक्षेपकस्य सामान्यलक्षणानि
यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः |
तदाऽऽक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः ||२७||
मुहुर्मुहुश्चाक्षेपणादाक्षेपक इति स्मृतः |
(सु. नि. अ. १) |
अपतन्त्रकलक्षणम् अपतानकलक्षणं च
क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रवर्तते ||२८||
पीडयन् हृदयं गत्वा शिरःशङ्खौ च पीडयन् |
धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तदा ||२९||
स कृच्छ्रादुच्छ्वसेच्चापि स्तब्धाक्षोऽथ निमीलकः |
कपोत इव कूजेच्च निःसञ्ज्ञः सोऽपतन्त्रकः ||३०||
दृष्टिं संस्तभ्य सञ्ज्ञां च हत्वा कण्ठेन कूजति |
हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः ||३१||
वायुना दारुणं प्राहुरेके तदपतानकम् |
(च. सि. अ. १) |
दण्डापतानकलक्षणम्
कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति ||३२||
दण्डवत् स्तम्भयेद्देहं स तु दण्डापतानकः |
(सु. नि. अ. १) |
धनुःस्तम्भलक्षणम्
धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसञ्ज्ञकः ||३३||
(सु. नि. अ. १) |
अभ्यन्तरायामलक्षणं बाह्यायामलक्षणं च
अङ्गुलीगुल्फजठरहृद्वक्षोगलसंश्रितः |
स्नायुप्रतानमनिलो यदाऽऽक्षिपति वेगवान् ||३४||
विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् |
अभ्यन्तरं धनुरिव यदा नमति मानवम् ||३५||
तदाऽस्याभ्यन्तरायामं कुरुते मारुतो बली |
बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च ||३६||
तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनम् |
(सु. नि. अ. १) |
अभिघातजाक्षेपकलक्षणम्
(हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक् |
क्रुद्धो वायुर्यदा कुर्यात् तदा तं कुब्जमादिशेत्) |
कफपित्तान्वितो वायुर्वायुरेव च केवलः ||३७||
कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम् |
(सु. नि. अ. १) |
अपतानकस्यासाध्यलक्षणम्
गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः ||३८||
अभिघातनिमित्तश्च न सिध्यत्यपतानकः |
(सु. नि. अ. १) |
पक्षवधस्य सम्प्राप्तिपूर्वकं लक्षणम्
गृहीत्वाऽर्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च ||३९||
पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन् |
कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः ||४०||
एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः |
सर्वाङ्गरोगस्तद्वच्च सर्वकायाश्रितेऽनिले ||४१||
(वा. नि. अ. १५) |
पक्षवधस्य साध्यासाध्यविचारः
दाहसन्तापमूर्छाः स्युर्वायौ पित्तसमन्विते |
शैत्यशोथगुरुत्वानि तस्मिन्नेव कफान्विते ||४२||
शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः |
साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम् ||४३||
(सु. नि. अ. १) |
(गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्स्रुते |
पक्षाघातं परिहरेत् वेदनारहितो यदि) |
अर्दितस्य निदानसम्प्राप्तिपूर्वकं लक्षणम्
उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि वा |
हसतो जृम्भतो वाऽपि भाराद्विषमशायिनः ||४४||
शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः |
अर्दयत्यनिलो वक्त्रमर्दितं जनयत्यतः |
वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते ||४५||
शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् |
ग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे च वेदना ||४६||
(यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम् |
वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः) |
तमर्दितमिति प्राहुर्व्याधिं व्याधिविचक्षणाः |
(सु. नि. अ. १) |
अर्दितस्यासाध्यलक्षणम्
क्षीणस्यानिमिषक्षस्य प्रसक्ताव्यक्तभाषिणः ||४७||
न सिध्यत्यर्दितं गाढं त्रिवर्षं वेपनस्य च |
(सु. नि. अ. १) |
आक्षेपकादीनां वेगशान्तौ स्वस्थत्वम्
गते वेगे भवेत् स्वास्थ्यं सर्वेष्वाक्षेपकादिषु ||४८||
(वा. नि. अ. १५) |
हनुग्रहलक्षणम्
जिह्वानिर्लेखनाच्छुष्कभक्षणादभिघाततः |
कुपितो हनुमूलस्थः स्रंसयित्वाऽनिलो हनुम् ||४९||
करोति विवृतास्यत्वमथवा संवृतास्यताम् |
हनुग्रहः स तेन स्यात् कृच्छ्राच्चर्वणभाषणम् ||५०||
(वा. नि. अ. १५) |
मन्यास्तम्भलक्षणम्
दिवास्वप्नासनस्थानविवृतोर्ध्वनिरीक्षणैः |
मन्यास्तम्भं प्रकुरुते स एव श्लेष्माणऽऽवृतः ||५१||
(सु. नि. अ. १) |
जिह्वास्तम्भलक्षणम्
वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयतेऽनिलः |
जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता ||५२||
(वा. नि. अ. १५) |
सिराग्रहस्य सम्प्राप्तिपूर्वकं लक्षणम्
रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः |
रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्यात् सिराग्रहः ||५३||
(वा. नि. अ. १५) |
गृध्रसीलक्षणम्
स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात् |
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः ||५४||
वाताद्वातकफात्तन्द्रागौरवारोचकान्विता |
(च. चि. अ. २८) |
गृध्रस्या विशेषलक्षणम्
वातजायां भवेत्तोदो देहस्यापि प्रवक्रता |
जानुकट्यूरुसन्धीनां स्फुरणं स्तब्धता भृशम् ||५५||
वातश्लेष्मोद्भवायां तु निमित्तं वह्निमार्दवम् |
तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च ||५६||
विश्वाचीलक्षणम्
तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः ||५७||
बाह्वोः कर्मक्षयकरी विश्वाची चेति सोच्यते |
(सु. नि. अ. १) |
क्रोष्टुकशीर्षलक्षणम्
वातशोणितजः शोथो जानुमध्ये महारुजः ||५८||
ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत् |
(सु. नि. अ. १) |
खञ्जलक्षणम्
वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा ||५९||
खञ्जस्तदा भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात् |
(सु. नि. अ. १) |
कलायखञ्जलक्षणम्
प्रक्रामन् वेपते यस्तु खञ्जन्निव च गच्छति ||६०||
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् |
(सु. नि. अ. १) |
वातकण्टकलक्षणम्
रुक् पादे विषमेन्यस्ते श्रमाद्वा जायते यदा ||६१||
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम् |
(वा. नि. अ. १५) |
पाददाहलक्षणम्
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः ||६२||
विशेषतश्चङ्क्रमतः पाददाहं तमादिशेत् |
(सु. नि. अ. १) |
पादहर्षलक्षणम्
हृष्येते चरणौ यस्य भवेतां चापि सुप्तकौ ||६३||
पादहर्षः स विज्ञेयः कफवातप्रकोपतः |
(सु. नि. अ. १) |
अंसशोषलक्षणम्
अंसदेशस्थितो वायुः शोषयेदंसबन्धनम् ||६४||
(सु. नि. अ. १) |
अवबाहुकलक्षणम्
सिराश्चाकुञ्च्य तत्रस्थो जनयेदवबाहुकम् |६५|
(सु. नि. अ. १) |
मूकादीनां लक्षणम्
आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः ||६५||
नरान् करोत्यक्रियकान्मूकमिन्मिनगद्गदान् |
(सु. नि. अ. १) |
तूनीलक्षणम्
अधो या वेदना याति वर्चोमूत्राशयोत्थिता ||६६||
भिन्दतीव गुदोपस्थं सा तूनी नाम नामतः |
(सु. नि. अ. १) |
प्रतितूनीलक्षणम्
गुदोपस्थोत्थिता या तु प्रतिलोमं प्रधाविता ||६७||
वेगैः पक्वाशयं याति प्रतितूनीति सोच्यते |
(सु. नि. अ. १) |
आध्मानलक्षणं, प्रत्याध्मानलक्षणं च
साटोपमत्युग्ररुजमाध्मातमुदरं भृशम् ||६८||
आध्मानमिति तं विद्याद् घोरं वातनिरोधजम् |
विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् ||६९||
प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम् |
(सु. नि. अ. १) |
अष्ठीलालक्षणं, प्रत्यष्ठीलालक्षणं च
नाभेरधस्तात् सञ्जातः सञ्चारी यदि वाऽचलः ||७०||
अष्ठीलावद्घनो ग्रन्थिरूर्ध्वमायत उन्नतः |
वाताष्ठीलां विजानीयाद्बहिर्मार्गावरोधिनीम् ||७१||
एतामेव रुजोपेतां वातविण्मूत्ररोधिनीम् |
प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ||७२||
(सु. नि. अ. १) |
बस्तौ प्रतिलोमे वायौ विविधमूत्ररोधकविकारसम्भवः
मारुतेऽनुगुणे बस्तौ मूत्रं सम्यक् प्रवर्तते |
विकारा विविधाश्चात्र प्रतिलोमे भवन्ति च ||७३||
(सु. नि. अ. ३) |
वेपथुलक्षणम्
सर्वाङ्गकम्पः शिरसो वायुर्वेपथुसञ्ज्ञकः |७४|
खल्लीलक्षणम्, ऊर्ध्ववातलक्षणं च
खल्ली तु पादजङ्घोरुकरमूलावमोटनी ||७४||
(च. चि. अ. २८) |
ऊर्ध्ववातलक्षणम्
अधः प्रतिहतो वायुः श्लेष्मणा मारुतेन वा |
करोत्युद्गारबाहुल्यमूर्ध्ववातः स उच्यते ||७५||
अनुक्तवातरोगसङ्ग्रहः
स्थाननामानुरूपैश्च लिङ्गैः शेषान् विनिर्दिशेत् |
सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत् ||७६||
(च. चि. अ. २८) |
हनुस्तम्भार्दिताक्षेपपक्षाघातापतानकाः |
कालेन महता वाता यत्नात् सिध्यन्ति वा न वा ||७७||
नरान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान् |
(च. चि. अ. २८) |
पूर्वोक्तवातरोगाणां साध्यासाध्यविचारः, उपद्रवाश्च
विसर्पदाहरुक्सङ्गमूर्छारुच्यग्निमार्दवैः ||७८||
क्षीणमांसबलं वाता घ्नन्ति पक्षवधादयः |
शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम् |
रुजार्तिमन्तं च नरं वातव्याधिर्विनाशयेत् ||७९||
(सु. सू. अ. ३३) |
प्रकृतिस्थस्य वायोर्लिङ्गं कार्यं च
अव्याहतगतिर्यस्य स्थानस्थः प्रकृतिस्थितः |
वायुः स्यात् सोऽधिकं जीवेद्वीतरोगः समाः शतम् ||८०||
(च. चि. अ. २८) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने वातव्याधिनिदानं समाप्तम् ||२२||