23. वातरक्तनिदानम्

वातरक्तनिदानम्
अथ वातरक्तनिदानम् |
लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनः |
क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ||१||
कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः |
दध्यारनालसौवीरशुक्ततक्रसुरासवैः ||२||
विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः |
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् |
(च. चि. अ. २९) |
स्थूलानां सुखिनां चापि कुप्यते वातशोणितम् ||३||
(सु. चि. अ. १) |

वातरक्तसम्प्राप्तिः
हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं सविदाहोऽशनस्य |
कृत्स्नं रक्तं विदहत्याशु तच्च स्रस्तं दुष्टं पादयोश्चीयते तु |
तत् सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ||४||
(सु. नि. अ. १) |

वातरक्तपूर्वरूपम्
स्वेदोऽत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेऽतिरुक् |
सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः ||५||
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु |
निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ||६||
कण्डूः सन्धिषु रुग्भूत्वा भूत्वा नश्यति चासकृत् |
वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् ||७||
(च. चि. अ. २९) |

वातरक्तस्य दोषान्तरेण संसर्गे लक्षणानि
वातेऽधिकेऽधिकं तत्र शूलस्फुरणभञ्जनम् |
शोथस्य रौक्ष्यं कृष्णत्वं श्यावता वृद्धिहानयः ||८||
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् |
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ||९||
रक्ते शोथोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते |
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः ||१०||
पित्ते विदाहः सम्मोहः स्वेदो मूर्छा मदस्तृषा |
स्पर्शासहत्वं रुग्रागः शोथः पाको भृशोष्मता ||११||
कफे स्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतताः |
कण्डूर्मन्दा च रुग्द्वन्द्वं सर्वलिङ्गं च सङ्करात् ||१२||
(वा. नि. अ. १६) |

क्रुद्धस्य वातरक्तस्य सर्वदेहविसर्पितत्वम्
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि |
आखोर्विषमिव क्रुद्धं तद्देहमुपसर्पति ||१३||
(सु. नि. अ. १) |

वातरक्तस्य साध्यासाध्यविचारः
आजानु स्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत् |
उपद्रवैश्च यज्जुष्टं प्राणमांसक्षयादिभिः ||१४||
वातरक्तमसाध्यं स्याद्याप्यं संवत्सरोत्थितम् |
(सु. नि. अ. १) |
अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः ||१५||
सम्मूर्छामदरुक्तृष्णाज्वरमोहप्रवेपकाः |
हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः ||१६||
अङ्गुलीवक्रतास्फोटदाहमर्मग्रहार्बुदाः |
एतैरुपद्रवैर्वर्ज्यं मोहेनैकेन वाऽपि यत् ||१७||
अकृत्स्नोपद्रवं याप्यं, साध्यं स्यान्निरुपद्रवम् |
एकदोषानुगं साध्यं नवं, याप्यं द्विदोषजम् |
त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्रवाः ||१८||
(च. चि. अ. २९) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने वातरक्तनिदानं समाप्तम् ||२३||