24. ऊरुस्तम्भनिदानम्

ऊरुस्तम्भस्य निदानसम्प्राप्तिपूर्वकं लक्षणम्
अथोरुस्तम्भनिदानम् |
शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः |
जीर्णाजीर्णे तथाऽऽयाससङ्क्षोभस्वप्नजागरैः ||१||
सश्लेष्ममेदःपवनः साममत्यर्थसञ्चितम् |
अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते ||२||
सक्थ्यस्थिनी प्रपूर्यान्तः श्लेष्मणा स्तिमितेन च |
तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ||३||
परकीयाविव गुरू स्यातामतिभृशव्यथौ |
ध्यानाङ्गमर्दस्तैमित्यतन्द्राच्छर्द्यरुचिज्वरैः ||४||
संयुक्तौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः |
तमूरुस्तम्भमित्याहुराढ्यवातमथापरे ||५||
(वा. नि. अ. १५) |

ऊरुस्तम्भस्य पूर्वरूपम्
प्राग्रूपं तस्य निद्राऽतिध्यानं स्तिमितता ज्वरः |
रोमहर्षोऽरुचिश्छर्दिर्जङ्घोर्वोः सदनं तथा ||६||

ऊरुस्तम्भस्य अनुपशयं, लक्षणम्, असाध्यलक्षणम्
वातशङ्किभिरज्ञानात्तस्य स्यात् स्नेहनात् पुनः |
पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ||७||
जङ्घोरुग्लानिरत्यर्थं शश्वच्चादाहवेदने |
पादं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ||८||
संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः |
अन्यस्येव हि सम्भग्नावूरू पादौ च मन्यते ||९||
यदा दाहार्तितोदार्तो वेपनः पुरुषो भवेत् |
ऊरुस्तम्भस्तदा हन्यात्, साधयेदन्यथा नवम् ||१०||
(च. चि. अ. २७) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने ऊरुस्तम्भनिदानं समाप्तम् ||२४||