47. उपदंशनिदानम्

उपदंशनिदानम्
अथोपदंशनिदानम् |
हस्ताभिघातान्नखदन्तपातादधावनाद्रत्यतिसेवनाद्वा |
योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः ||१||

वातिक-पैत्तिकोपदंशलक्षणम्
सतोदभेदैः स्फुरणैः सकृष्णैः स्फोटैर्व्यवस्येत् पवनोपदंशम् |
पीतैर्बहुक्लेदयुतैः सदाहैः पित्तेन... |२|

रक्तज-कफजोपदंशलक्षणम्
...रक्तात् पिशितावभासैः ||२||
स्फोटैः सकृष्णै रुधिरं स्रवन्तं रक्तात्मकं पित्तसमानलिङ्गम् |
सकण्डुरैः शोथयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेन ||३||

सन्निपातजोपदंशलक्षणम्
नानाविधस्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम् |४|

उपदंशस्या साध्यलक्षणम्
विशीर्णमांसं क्रिमिभिः प्रजग्धं मुष्कावशेषं परिवर्जयेच्च ||४||

उपदंशस्यासाध्यलक्षणम्
सञ्जातमात्रे न करोति मूढः क्रियां नरो यो विषये प्रसक्तः |
कालेन शोथक्रिमिदाहपाकैर्विशीर्णशिश्नो म्रियते स तेन ||५||

लिङ्गार्शोलक्षणम्
अङ्कुरैरिव सङ्घातैरुपर्युपरिसंस्थितैः |
क्रमेण जायते वर्तिस्ताम्रचूडशिखोपमा ||६||
कोषस्याभ्यन्तरे सन्धौ सर्वसन्धिगताऽपि वा |
(सवेदना पिच्छिला च दुश्चिकित्स्या त्रिदोषजा) |
लिङ्गवर्तिरभिख्याता लिङ्गार्श इति चापरे ||७||

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने उपदंशनिदानं समाप्तम् ||४७||