20. उन्मादनिदानम्

उन्मादनिरुक्तिः
अथोन्मादनिदानम् |
मदयन्त्युद्गता दोषा यस्मादुन्मार्गमागताः |
मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ||१||
(सु. उ. तं. अ. ६२) |

उन्मादभेदाः
एकैकशः सर्वशश्च दोषैरत्यर्थमूर्छितैः |
मानसेन च दुःखेन स च पञ्चविधो मतः ||२||
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् |
स चाप्रवृद्धस्तरुणो मदसञ्ज्ञां बिभर्ति च ||३||
(सु. उ. तं. अ. ६२) |

उन्मादसामान्यनिदानम्
विरुद्धदुष्टाशुचिभोजननि प्रधर्षणं देवगुरुद्विजानाम् |
उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमाश्च चेष्टाः ||४||
(च. चि. अ. ९) |

उन्मादसम्प्राप्तिः
तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य |
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः ||५||
(च. चि. अ. १) |

उन्मादसामान्यलक्षणम्
धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च |
अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ||६||
(च. चि. अ. ९) |

वातिकोन्मादस्य निदानसम्प्राप्तिपूर्वकं लक्षणम्
रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः |
चिन्तादिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम् ||७||
अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि |
पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलं चानिलजस्य रूपम् ||८||
(च. चि. अ. ९) |

पैत्तिकोन्मादस्य निदानादिपूर्वकं लक्षणम्
अजीर्णकट्वम्लविदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम् |
उन्मादमत्युग्रमनात्मकस्य हृदि स्थितं पूर्ववदाशु कुर्यात् ||९||
अमर्षसंरम्भविनग्नभावाः सन्तर्जनातिद्रवणौष्ण्यरोषाः |
प्रच्छायशीतान्नजलाभिलाषः पीता च भाः पित्तकृतस्य लिङ्गम् ||१०||
(च. चि. अ. ९) |

श्लैष्मिकोन्मादस्य निदानादिपूर्वकं लक्षणम्
सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रदुष्टः |
बुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् सञ्जनयेद्विकारम् ||११||
वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽतिनिद्रा |
छर्दिश्च लाला च बलं च भुक्ते नखादिशौक्ल्यं च कफात्मके स्यात् |
(च. चि. अ. ९) ||१२||

सान्निपातिकोन्मादस्य निदानादिपूर्वकं लक्षणम्
यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स च हेतुभिः स्यात् |
सर्वाणि रूपाणि बिभर्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः ||१३||
(च. चि. अ. ९) |

शोकादिजोन्मादस्य निदानसम्प्राप्तिपूर्वकं लक्षणम्
चोरैर्नरेन्द्रपुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसङ्क्षयाद्वा |
गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतमो मनसो विकारः ||१४||
चित्रं ब्रवीति च मनोऽनुगतं विसञ्ज्ञो गायत्यथो हसति रोदिति चापि मूढः |
(सु. उ. तं. अ. ६२) |

विषजोन्मादलक्षणम्
रक्तेक्षणो हतबलेन्द्रियभाः सुदीनः श्यावाननो विषकृतेऽथ भवेद्विसञ्ज्ञः ||१५||
(सु. उ. तं. अ. ६२) |

उन्मादस्यासाध्यलक्षणम्
अवाञ्ची वाऽप्युदञ्ची वा क्षीणमांसबलो नरः |
जागरूको ह्यसन्देहमुन्मादेन विनश्यति ||१६||
(सु. उ. तं. अ. ६२) |

भूतोन्मादसामान्यलक्षणम्
अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः |
उन्मादकालोऽनियतश्च तस्य भूतोत्थमुन्मादमुदाहरेत्तम् ||१७||
(च. चि. अ. ९) |

देवजुष्टलक्षणम्
सन्तुष्टः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रीरवितथसंस्कृतप्रभाषी |
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः ||१८||
(सु. उ. तं. अ. ६०) |

असुरजुष्टलक्षणम्
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः |
सन्तुष्टो न भवति चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुजुष्टः ||१९||
(सु. उ. तं. अ. ६०) |

गन्धर्वाविष्टलक्षणम्
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः |
नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः ||२०||
(सु. उ. तं. अ. ६०) |

यक्षाविष्टलक्षणम्
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतगतिरल्पवाक्सहिष्णुः |
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ||२१||
(सु. उ. तं. अ. ६०) |

पितृजुष्टलक्षणम्
प्रेतानां स दिशति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः |
मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो भवति पितृग्रहाभिजुष्टः ||२२||
(सु. उ. तं. अ. ६०) |

नागाविष्टलक्षणम्
यस्तूर्व्यां प्रसरति सर्पवत् कदाचित् सृक्कण्यौ विलिहति जिह्वया तथैव |
क्रोधालुर्गुडमधुदुग्धपायसेप्सुर्ज्ञातव्यो भवति भुजङ्गमेन जुष्टः ||२३||
(सु. उ. तं. अ. ६०) |

राक्षसाविष्टलक्षणम्
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः |
क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति स राक्षसैर्गृहीतः ||२४||
(सु. उ. तं. अ. ६०) |

पिशाचाविष्टलक्षणम्
उद्धस्तः कृशपरुषो अचिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः |
बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टन् भ्रमति रुदन् पिशाचजुष्टः ||२५||
(सु. उ. तं. अ. ६०) |

भूतोन्मादस्यासाध्यलक्षणम्
स्थूलाक्षो द्रुतमटनः स फेनलेही निद्रालुः पतति च कम्पते च यो हि |
यश्चाद्रिद्विरदनगादिविच्युतः स्यात् सोऽसाध्यो भवति तथा त्रयोदशाब्दे ||२६||
(सु. उ. तं. अ. ६०) |

देवादीनां ग्रहणकालः
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि |
गन्धर्वाः प्रायशोऽष्टम्यां, यक्षाश्च प्रतिपद्यथ ||२७||
पित्र्याः कृष्णक्षये हिंस्युः, पञ्चम्यामपि चोरगाः |
रक्षांसि रात्रौ, पैशाचाश्चतुर्दश्यां विशन्ति हि ||२८||
(सु. उ. तं. अ. ६०) |

आविशतां देवादीनामनुपलब्धौ दृष्टान्तः
दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा |
स्वमणिं भास्करार्चिश्च यथा देहं च देहधृक् |
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणः ||२९||
(सु. उ. तं. अ. ६०) |
प्रविश्याशु शरीरं हि पीडां कुर्वन्ति दुःसहाम् ||३०||

ग्रहाणां तीव्रतपादिप्रभाववत्ताकथनम्
तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमश्च सत्यम् |
गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ||३१||
न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति |
ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः ||३२||
तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसङ्ख्याः |
असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तथाऽऽविशन्ति ||३३||

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदान उन्मादनिदानं समाप्तम्||२०|| ||२०||