27. उदावर्तानाहनिदानम्
उदावर्तनिदानम्
अथोदावर्तानाहनिदानम् |
वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः |
क्षुत्तृष्णोच्छ्वासनिद्राणां धृत्योदावर्तसम्भवः ||१||
वातनिरोधज-पुरीषनिरोधज- मूत्रनिरोधज-जृम्भोपघातज-बाष्पनिरोधज- क्षवथुनिरोधज-उद्गारनिरोधज-छर्दिनिग्रहज- शुक्रनिरोधज-क्षुधानिरोधज-तृष्णाविघातज- निःश्वासविनिग्रहज-निद्राभिघातजोदावर्तलक्षणम्
वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा |
जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् ||२||
(च. सू. अ. ७) |
आटोपशूलौ परिकर्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः |
पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ||३||
(सु. उ. तं. अ. ५५) |
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा |
विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ||४||
(च. सू. अ. ७) |
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः |
तथाऽक्षिनासावदनामयाश्च भवन्ति तीव्राः सह कर्णरोगैः ||५||
आनन्दजं वाऽप्यथ शोकजं वा नेत्रोदकं प्राप्तममुञ्चतो हि |
शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन ||६||
(सु. उ. तं. अ. ५५) |
मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदकौ |
इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात् ||७||
(च. सू. अ. ७) |
कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरथवाऽप्रवृत्तिः |
उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः ||८||
(सु. उ. तं. अ. ५५) |
कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः |
कुष्ठवीसर्पहृल्लासाश्छर्दिनिग्रहजा गदाः ||९||
(च. सू. अ. ७) |
मूत्राशये वै गुदमुष्कयोश्च शोथो रुजा मूत्रविनिग्रहश्च |
शुक्राश्मरी तत्स्रवणं भवेच्च ते ते विकारा विहते च शुक्रे ||१०||
तन्द्राङ्गमर्दावरुचिः श्रमश्च क्षुधाभिघातात् कृशता च दृष्टेः |
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाविघाताद्धृदये व्यथा च ||११||
श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोगमोहावथवाऽपि गुल्मः |
जृम्भाऽङ्गमर्दोऽक्षिशिरोऽतिजाड्यं निद्राभिघातादथवाऽपि तन्द्रा ||१२||
(सु. उ. तं. अ. ५५) |
रूक्षादिकुपितवातजोदावर्तस्य निदान- सम्प्राप्ति-लक्षणानि
वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः |
भोजनः कुपितः सद्य उदावर्तं करोति हि ||१३||
वातमूत्रपुरीषासृक्कफमेदोवहानि वै |
स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् ||१४||
ततो हृद्बस्तिशूलार्तो हृल्लासारतिपीडितः |
वातमूत्रपुरीषाणि कृच्छ्रेण लभते नरः ||१५||
श्वासकासप्रतिश्यायदाहमोहतृषाज्वरान् |
वमिहिक्काशिरोरोगमनःश्रवणविभ्रमान् |
बहूनन्यांश्च लभते विकारान् वातकोपजान् ||१६||
(सु. उ. तं. अ. ५५) |
आनाहलक्षणम्
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन |
प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति ||१७||
तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः |
आमाशये शूलमथो गुरुत्वं हृत्स्तम्भ उद्गारविघातनं च ||१८||
स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्छा शकृतश्च छर्दिः |
शोथश्च पक्वाशयजे भवन्ति तथाऽलसोक्तानि च लक्षणानि ||१९||
(सु. उ. तं. अ. ५६) |
तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् |
शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् ||२०||
(सु. उ. तं. अ. ५५) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने उदावर्तानाहनिदानं समाप्तम् ||२७||