13. स्वरभेदनिदानम्
स्वरभेदस्य निदानपूर्विका सम्प्राप्तिः
अथ स्वरभेदनिदानम् |
अत्युच्चभाषणविषाध्ययनाभिघातसन्दूषणैः प्रकुपिताः पवनादयस्तु |
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः ||१||
(सु. उ. तं. अ. ५३) |
(वातादिभिः पृथक् सर्वैर्मेदसा च क्षयेण च) |
वातिकस्वरभेदलक्षणम्
वातेन कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गर्दभवत् खरं च |२|
(सु. उ. तं. अ. ५३) |
पैत्तिकस्वरभेदलक्षणम्
पित्तेन पीतनयनाननमूत्रवर्चा ब्रूयाद्गलेन स च दाहसमन्वितेन ||२||
(सु. उ. तं. अ. ५३) |
श्लैष्मिकस्वरभेदलक्षणम्
ब्रूयात् कफेन सततं कफरुद्धकण्ठः स्वल्पं शनैर्वदति चापि दिवा विशेषात् |३|
(सु. उ. तं. अ. ५३) |
सान्निपातिकस्वरभेदलक्षणम्
सर्वात्मके भवति सर्वविकारसम्पत् तं चाप्यसाध्यमृषयः स्वरभेदमाहुः ||३||
(सु. उ. तं. अ. ५३) |
क्षयजस्वरभेदलक्षणम्
धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्च वागेष चापि हतवाक् परिवर्जनीयः |४|
(सु. उ. तं. अ. ५३) |
मेदोजस्वरभेदलक्षणम्
अन्तर्गतस्वरमलक्ष्यपदं चिरेण मेदोऽन्वयाद्वदति दिग्धगलस्तृषार्तः ||४||
(सु. उ. तं. अ. ५३) |
स्वरभेदस्यासाध्यलक्षणम्
क्षीणस्य वृद्धस्य कृशस्य वाऽपि चिरोत्थितो यश्च सहोपजातः |
मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति ||५||
(सु. उ. तं. अ. ५३) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने स्वरभेदनिदानं समाप्तम् ||१३||