26. शूलपरिणामशूलान्नद्रवशूल निदानम्
शूलस्य सन्निकृष्टनिदानम्
अथ शूलपरिणामशूलान्नद्रवशूलनिदानम् |
दोषैः पृथक् समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् |
सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ||१||
वातिकशूलस्य निदानादिपूर्वकं लक्षणम्
व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात् |
कलायमुद्गाढकिकोरदूषादत्यर्थरूक्षाध्यशनाभिघातात् ||२||
कषायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकात् |
विट्शुक्रमूत्रानिलवेगरोधाच्छोकोपवासादतिहास्यभाष्यात् ||३||
वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पार्श्वपृष्ठत्रिकबस्तिदेशे |
जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् ||४||
मुहुर्मुहुश्चोपशमप्रकोपी विड्वातसंस्तम्भनतोदभेदैः |
संस्वेदनाभ्यञ्जनमर्दनाद्यैः स्निग्धोष्णभोज्यैश्च शमं प्रयाति ||५||
पैत्तिकशूलस्य निदानादिपूर्वकं लक्षणम्
क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः |
कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ||६||
ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याशु करोति शूलम् |
तृण्मोहदाहार्तिकरं हि नाभ्यां संस्वेदमूर्छाभ्रमचोषयुक्तम् ||७||
मध्यन्दिने कुप्यति चार्धरात्रे विदाहकाले जलदात्यये च |
शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनश्च ||८||
श्लैष्मिकशूलस्य निदानादिपूर्वकं लक्षणम्
आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः |
अन्यैर्बलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम् ||९||
हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः |
भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रं सूर्योदयेऽथ शिशिरे कुसुमागमे च ||१०||
सान्निपातिकशूललक्षणम्
सर्वेषु दोषेषु च सर्वलिङ्गं विद्याद्भिषक् सर्वभवं हि शूलम् |
सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः ||११||
आमशूललक्षणम्
आटोपहृल्लासवमीगुरुत्वस्तैमित्यकानाहकफप्रसेकैः |
कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति ||१२||
द्वन्द्वजशूललक्षणम्
द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम् |
बस्तौ हृत्पार्श्वपृष्ठेषु स शूलः कफवातिकः |
कुक्षौ हृन्नाभिमध्येषु स शूलः कफपैत्तिकः ||१३||
दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः |१४|
शूलस्य साध्यासाध्यत्वम्
एकदोषोत्थितः साध्यः, कृच्छ्रसाध्यो द्विदोषजः ||१४||
सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्रवः |१५|
परिणामशूलस्य निदानपूर्वकं लक्षणम्
स्वैर्निदानैः प्रकुपितो वायुः सन्निहितस्तदा ||१५||
कफपित्ते समावृत्य शूलकारी भवेद्बली |
भुक्ते जीर्यति यच्छूलं तदेव परिणामजम् ||१६||
तस्य लक्षणमप्येतत् समासेनाभिधीयते |१७|
परिणामशूलस्य वातादिभेदेन लक्षणानि
आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः ||१७||
स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् |
तृष्णादाहारतिस्वेदं कट्वम्ललवणोत्तरम् ||१८||
शूलं शीतशमप्रायं पैत्तिकं लक्षयेद्बुधः |
छर्दिहृल्लाससम्मोहं स्वल्परुग्दीर्घसन्तति ||१९||
कटुतिक्तोपशान्तं च तच्च ज्ञेयं कफात्मकम् |
संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत् ||२०||
त्रिदोषजमसाध्यं तु क्षीणमांसबलानलम् |२१|
अन्नद्रवशूललक्षणम्
जीर्णे जीर्यत्यजीर्णे वा यच्छूलमुपजायते ||२१||
पथ्यापथ्यप्रयोगेण भोजनभोजनन च |
न शमं याति नियमात् सोऽन्नद्रव उदाहृतः ||२२||
(अन्नद्रवाख्यशूलेषु न तावत् स्वास्थ्यमश्नुते |
वान्तमात्रे जरत्पित्तं शूलमाशु व्यपोहति) ||१||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने शूलपरिणामशूलान्नद्रवशूलनिदानं समाप्तम् ||२६||