39. श्लीपदनिदानम्
श्लीपदसम्प्राप्तिः, वातज-पित्तज- श्लैष्मिकश्लीपदलक्षणं च
अथ श्लीपदनिदानम् |
यः सज्वरो वङ्क्षणजो भृशार्तिः शोथो नृणां पादगतः क्रमेण |
तच्छ्लीपदं स्यात् करकर्णनेत्रशिश्नौष्ठनासास्वपि केचिदाहुः ||१||
वातजं कृष्णरूक्षं च स्फुटितं तीव्रवेदनम् |
अनिमित्तरुजं तस्य बहुशो ज्वर एव च ||२||
पित्तजं पीतसङ्काशं दाहज्वरयुतं मृदु |
श्लैष्मिकं स्निग्धवर्णं च श्वेतं पाण्डु गुरु स्थिरम् ||३||
असाध्यश्लीपदलक्षणम्
वल्मीकमिव सञ्जातं कण्टकैरुपचीयते |
अब्दात्मकं महत्तच्च वर्जनीयं विशेषतः ||४||
श्लीपदेषु कफस्याव्यभिचारेण प्राधान्यम्
त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात् |
गुरुत्वं च महत्त्वं च यस्मान्नास्ति कफं विना ||५||
(सु. नि. अ. १२) |
श्लीपदसम्भवहेतुर्देशः
पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः |
ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ||६||
(सु. नि. अ. १२) |
श्लीपदस्यापरमसाध्यलक्षणम्
यच्छ्लेष्मलाहारविहारजातं पुंसः प्रकृत्याऽपि कफात्मकस्य |
सास्रावमत्युन्नतसर्वलिङ्गं सकण्डुरं श्लेष्मयुतं विवर्ज्यम् ||७||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने श्लीपदनिदानं समाप्तम् ||३९||