60.  शिरोरोगनिदानम्

शिरोरोगभेदाः
अथ शिरोरोगनिदानम्|
शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभिः |
सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा |
सूर्यावर्तानन्तवातार्धावभेदकशङ्खकैः ||१||
(सु. उ. तं. अ. २५) |

वातजशिरोरोगलक्षणम्
यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम् |
बन्धोपतापैः प्रशमश्च यत्र शिरोऽभितापः स समीरणेन ||२||
(सु. उ. तं. अ. २५) |

पित्तजशिरोरोगलक्षणम्
यस्योष्णमङ्गारचितं यथैव भवेच्छिरो तु पित्तकोपात् ||३||
(सु. उ. तं. अ. २५) |

श्लेष्मजशिरोरोगलक्षणम्
शिरो भवेद्यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमतो हिमं च |
शूनाक्षिकूटं वदनं च यस्य शिरोऽभितापः स कफप्रकोपात् ||४||
(सु. उ. तं. अ. २५) |

त्रिदोषजशिरोरोगलक्षणम्
शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति |५|
(सु. उ. तं. अ. २५) |

रक्तजशिरोरोगलक्षणम्
रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ||५||
(सु. उ. तं. अ. २५) |

क्षयजशिरोरोगलक्षणम्
असृग्वसाश्लेष्मसमीरणानां शिरोगतानामिह सङ्क्षयेण |
क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् |
संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति ||६||
(सु. उ. तं. अ. २५) |

क्रिमिजशिरोरोगलक्षणम्
निस्तुद्यते यस्य शिरोऽतिमात्रं सम्भक्ष्यमाणं स्फुरतीव चान्तः |
घ्राणाच्च गच्छेत् सलिलं सपूयं शिरोभितापः क्रिमिभिः स घोरः ||७||
(सु. उ. तं. अ. २५) |

सूर्यावर्तलक्षणम्
सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवं रुक् समुपैति गाढा |
विवर्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च |
सर्वात्मकं कष्टतमं विकारं सूर्यापवर्तं तमुदाहरन्ति ||८||
(सु. उ. तं. अ. २५) |

अनन्तवातलक्षणम्
दोषास्तु दुष्टास्त्रय एव मन्यां सम्पीड्य घाटासु रुजां सुतीव्राम् |
कुर्वन्ति योऽक्षिभ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु ||९||
गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान् |
अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् ||१०||
(सु. उ. तं. अ. २५) |

अर्धावभेदलक्षणम्
रूक्षाशनात्यध्यशनप्राग्वातावश्यमैथुनैः |
वेगसन्धारणायासव्यायामैः कुपितोऽनिलः ||११||
केवलः सकफो वाऽर्धं गृहीत्वा शिरसो बली |
मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम् ||१२||
शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदकः |
नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत् ||१३||

शङ्खकस्य सम्प्राप्तिपूर्वकं लक्षणम्
रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्छिताः |
तीव्ररुग्दाहरागं हि शोथं कुर्वन्ति दारुणम् ||१४||
स शिरो विषवद्वेगी निरुन्ध्याशु गलं तथा |
त्रिरात्राज्जीवितं हन्ति शङ्खको नामतः परम् |
त्र्यहाज्जीवति भैषज्यं प्रत्याख्याय समाचरेत् ||१५||

पुष्पिका
इति श्रीमाधवकरविचिते माधवनिदाने शिरोरोगनिदानं समाप्तम् ||६०||