43. सद्योव्रणनिदानम्
सद्योव्रणनिदानं, भेदाश्च
नानाधारमुखैः शस्त्रैर्नानास्थाननिपातितैः |
भवन्ति नानाकृतयो व्रणास्तांस्तान्निबोध मे ||१||
छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च |
घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् ||२||
(सु. चि. अ. २) |
छिन्नलक्षणम्
तिर्यक् छिन्न ऋजुर्वाऽपि यो व्रणस्त्वायतो भवेत् |
गात्रस्य पातनं तद्धि छिन्नमित्यभिधीयते ||३||
(सु. चि. अ. २) |
भिन्नलक्षणम्
शक्तिदन्तेषु खड्गाग्रविषाणैराशयो हतः |
यत्किञ्चित् प्रस्रवेत्तद्धि भिन्नलक्षणमुच्यते ||४||
(सु. चि. अ. २) |
कोष्ठनिरूपणं, तद्भेदलक्षणं च
स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च |
हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते ||५||
तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते |
मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति ||६||
मूर्छा श्वासस्तृषाऽऽध्मानमभक्तच्छन्द एव च |
विण्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता ||७||
लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च |
हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र मे शृणु ||८||
आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि |
आध्मानमतिमात्रं च शूलं च भृशदारुणम् ||९||
पक्वाशयगते चापि रुजा गौरवमेव च |
अधःकाये विशेषेण शीतता च भवेदिह ||१०||
(सु. चि. अ. २) |
विद्धलक्षणम्
सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयं विना |
उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत् ||११||
(सु. चि. अ. २) |
क्षतलक्षणम्
नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् |
विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिधीयते ||१२||
(सु. चि. अ. २) |
पिच्चितलक्षणम्
प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् |
सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम् ||१३||
(सु. चि. अ. २) |
घृष्टलक्षणम्
घर्षणादभिघाताद्वा यदङ्गं विगतत्वचम् |
उषास्रावान्वितं तच्च घृष्टमित्यभिधीयते ||१४||
(सु. चि. अ. २) |
सशल्यव्रणलक्षणं, कोष्ठगतशल्यलक्षणं च
श्यावं सशोथं पिडकाचितं च मुहुर्मुहुः शोणितवाहिनं च |
मृदूद्गतं बुद्बुदतुल्यमांसं व्रणं सशल्यं सरुजं वदन्ति ||१५||
त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा |
कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान् ||१६||
(सु. चि. अ. २) |
असाध्यकोष्ठभेदलिङ्गम्
तत्रान्तर्लोहितं पाण्डुशीतपादकराननम् |
शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत् ||१७||
मांससिरास्नाय्वस्थिसन्धिमर्मसु पञ्चसु क्षतेषु सामान्यलिङ्गम्
भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं ग्लानिरथोष्णता च |
स्रस्ताङ्गता मूर्छनमूर्ध्ववातस्तीव्रा रुजा वातकृताश्च तास्ताः ||१८||
मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रियार्थोपरमस्तथैव |
दशार्धसङ्ख्येष्वथ विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् ||१९||
(सु. सू. अ. २५) |
मर्मरहितानां सिरादीनां विद्धलिङ्गम्
सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्रवेत्तत्क्षयजश्च वायुः |
करोति रोगान् विविधान् यथोक्तान् सिरासु विद्धास्वथ वा क्षतासु ||२०||
कौब्ज्यं शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला रुजश्च |
चिराद्व्रणो रोहति यस्य चापि तं स्नायुविद्धं पुरुषं व्यवस्येत् ||२१||
शोफाभिवृद्धिस्तुमुला रुजश्च बलक्षयः सर्वत एव शोथः |
क्षतेषु सन्धिष्वचलाचलेषु स्यात् सर्वकर्मोपरमश्च लिङ्गम् ||२२||
घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु च नैति शान्तिम् |
भिषग्विपश्चिद्विदितार्थसूत्रस्तमस्थिविद्धं पुरुषं व्यवस्येत् ||२३||
(सु. सू. अ. २५) |
सिरादिमर्मविद्धलिङ्गम्
यथास्वमेतानि विभावयेच्च लिङ्गानि मर्मस्वभिताडितेषु |२४|
(सु. सू. अ. २५) |
मांसमर्मणो विद्धस्य लिङ्गम्
पाण्डुर्विवर्णः स्पृशितं न वेत्ति यो मांसमर्मण्यभिपीडितः स्यात् ||२४||
(सु. सू. अ. २५) |
सर्वव्रणानामुपद्रवाः
विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः |
मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः ||२५||
कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः |
षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः ||२६||
(च. चि. अ. २५) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने सद्योव्रणनिदानं समाप्तम् ||४३||