9. रक्तपित्तनिदानम्
रक्तपित्तस्य निदानपूर्विका सम्प्राप्तिः
अथ रक्तपित्तनिदानम् |
घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः |
तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च ||१||
पित्तं विदग्धं स्वगुणैर्विदहत्याशु शोणितम् |
ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा ||२||
(सु. उ. तं. अ. ४५) |
ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः |
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते ||३||
(आमाशयाद्व्रजेदूर्ध्वमधः पक्वाशयाद्व्रजेत् |
विदग्धयोर्द्वयोश्चापि द्विधा मार्गं प्रवर्तते) |
रक्तपित्तपूर्वरूपम्
सदनं शीतकामित्वं कण्ठधूमायनं वमिः |
लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति ||४||
(सु. उ. तं. अ. ४५) |
श्लैष्मिकरक्तपित्तलक्षणम्
सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम् |५|
(च. चि. अ. ४) |
वातिकरक्तपित्तलक्षणम्
श्यावारुणं सफेनं च तनु रूक्षं च वातिकम् ||५||
(च. चि. अ. ४) |
पैत्तिकरक्तपित्तलक्षणम्
रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम् |
मेचकागारधूमाभमञ्जनाभं च पैत्तिकम् ||६||
(च. चि. अ. ४) |
संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् |
(च. चि. अ. ४) |
द्वन्द्वजस्य त्रिदोषजस्य च रक्तपित्तस्य लक्षणम्
ऊर्ध्वगं कफसंसृष्टमधोगं पवनानुगम् |
द्विमार्गं कफवाताभ्यामुभाभ्यामनुवर्तते ||७||
(च. चि. अ. ४) |
संसर्गविशेषेण मार्गभेदाः
ऊर्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम् |८|
(सु. उ. तं. अ. ४५) |
मार्गभेदेन साध्यत्वादिकम्
एकमार्गं बलवतो नातिवेगं नवोत्थितम् ||८||
रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम् |
(च. चि. अ. ४) |
रक्तपित्तस्य साध्यासाध्यलक्षणम्
एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते ||९||
यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् |
व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत् ||१०||
(च. चि. अ. ४) |
रक्तपित्तस्योपद्रवाः
दौर्बल्यश्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्छा,
भुक्ते घोरो विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा |
तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूतिनिष्ठीवनत्वं,
भक्तद्वेषाविपाकौ विकृतिरपि भवेद्रक्तपित्तोपसर्गाः ||११||
(सु. उ. तं. अ. ४५) |
रक्तपित्तस्यासाध्यलक्षणम्
मांसप्रक्षालनाभं कुथितमिव च यत् कर्दमाम्भोनिभं वा,
मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम् |
यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारा
स्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति ||१२||
(सु. उ. तं. अ. ४५) |
येन चोपहतो रक्तं रक्तपित्तेन मानवः |
पश्येद्दृश्यं वियच्चापि तच्चासाध्यमसंशयम् ||१३||
(च. नि. अ. २) |
लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः |
लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिकः ||१४||
(सु. सू. अ. ३३) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने रक्तपित्तनिदानं समाप्तम् ||९||