10. राजयक्ष्मक्षतक्षीणनिदानम्

राजयक्ष्मनिदानम्
अथ राजयक्ष्मक्षतक्षीणनिदानम् |
वेगरोधात् क्षयाच्चैव साहसाद्विषमाशनात् |
त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ||१||

राजयक्ष्मसम्प्राप्तिः
कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु |
अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तराः |
क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः ||२||

राजयक्ष्मपूर्वरूपम्
श्वासाङ्गमर्दकफसंस्रवतालुशोषवम्यग्निसादमदपीनसकासनिद्राः |
शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ||३||
(सु. उ. तं. अ. ४१) |
स्वप्नेषु काकशुकशल्लकिनीलकण्ठा गृध्रास्तथैव कपयः कृकलासकाश्च |
तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ||४||
(सु. उ. तं. अ. ४१) |

त्रिरूपराजयक्ष्मणो लक्षणम्
अंसपार्श्वाभितापश्च सन्तापः करपादयोः |
ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः ||५||
(च. चि. अ. ८) |

राजयक्ष्मणः षड्रूपाणि
(भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम् |
स्वरभेदश्च जायेत षड्रूपं राजयक्ष्मणि) |६|

उल्बणदोषभेदेन यक्ष्मण एकादश रूपाणि
स्वरभेदोऽनिलाच्छूलं सङ्कोचश्चांसपार्श्वयोः |
ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ||६||
(सु. उ. तं. अ. ४१) |
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च |
कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः ||७||
(सु. उ. तं. अ. ४१) |

यक्ष्मिणोऽसाध्यलक्षणम्
एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम् |
कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः ||८||
त्रिभिर्वा पीडितं लिङ्गैः कासश्वासासृगामयैः |
जह्याच्छोषार्दितं जन्तुमिच्छन् सुविमलं यशः ||९||
(सु. उ. तं. अ. ४१) |
सर्वैरर्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये |
युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा ||१०||
महाशनं क्षीयमाणमतीसारनिपीडितम् |
शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ||११||
शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम् |
कृच्छ्रेण बहुमेहन्तं यक्ष्मा हन्तीह मानवम् ||१२||

यक्ष्मिणः साध्यलक्षणम्
ज्वरानुबन्धरहितं बलवन्तं क्रियासहम् |
उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् ||१३||
(सु. उ. तं. अ. ४१) |

शोषभेदाः
व्यवायशोकवार्धक्यव्यायामाध्वप्रशोषितान् |
व्रणोरःक्षतसञ्ज्ञौ च शोषिणौ लक्षणैः शृणु ||१४||
(सु. उ. तं. अ. ४१) |

व्यवायशोषिणो लक्षणम्
व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः |
पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः ||१५||
(सु. उ. तं. अ. ४१) |

शोकशोषिणो लक्षणम्
प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः |१६|
(सु. उ. तं. अ. ४१) |

वार्धक्यशोषिणो लक्षणम्
जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रियः ||१६||
कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः |
ष्ठीवति श्लेष्मणा हीनं गौरवारतिपीडितः ||१७||
सम्प्रस्रुतास्यनासाक्षिः शुष्करूक्षमलच्छविः |
(सु. उ. तं. अ. ४१) |

अध्वशोषिणो लक्षणम्
अध्वशोषी च स्रस्ताङ्गः सम्भृष्टपरुषच्छविः ||१८||
प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः |
(सु. उ. तं. अ. ४१) |

व्यायामशोषिणो लक्षणम्
व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः |
लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना ||१९||
(सु. उ. तं. अ. ४१) |

व्रणशोषिणो लक्षणम्
रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् |
व्रणितस्य भवेच्छोषः स चासाध्यतमो मतः ||२०||
(सु. उ. तं. अ. ४१) |

सनिदानमुरःक्षतलक्षणम्
धनुषाऽऽयस्यतोऽत्यर्थं भारमुद्वहतो गुरुम् |
युध्यमानस्य बलिभिः पततो विषमोच्चतः ||२१||
वृषं हयं वा धावन्तं दम्यं वाऽन्यं निगृह्णतः |
शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः परान् ||२२||
अधीयानस्य वाऽत्युच्चैर्दूरं वा व्रजतो द्रुतम् |
महानदीर्वा तरतो हयैर्वा सह धावतः ||२३||
सहसोत्पततो दूरं तूर्णं वाऽपि प्रनृत्यतः |
तथाऽन्यैः कर्मभिः क्रूरैर्भृशमभ्याहतस्य वा ||२४||
विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते |
स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः ||२५||
उरो विभज्यतेऽत्यर्थं भिद्यतेऽथ विरुज्यते |
प्रपीड्यते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते ||२६||
क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते |
ज्वरो व्यथा मनोदैन्यं विड्भेदाग्निवधावपि ||२७||
दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः |
कासमानस्य चाभीक्ष्णं कफः सासृक् प्रवर्तते ||२८||
स क्षती क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात् |
(च. चि. अ. १६) |

उरःक्षतपूर्वरूपम्
अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम् ||२९||

क्षतक्षीणयोरसाध्यलक्षणम्
उरोरुक् शोणितच्छर्दिः कासो वैशेषिकः क्षते |
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः ||३०||
(च. चि. अ. १६) |

क्षतक्षीणयोः साध्यासाध्यविचारः
अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः |
परिसंवत्सरो याप्यः सर्वलिङ्गं तु वर्जयेत् ||३१||
(च. चि. अ. १६) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने राजयक्ष्मक्षतक्षीणनिदानं समाप्तम् ||१०||