33. प्रमेहप्रमेहपिडकानिदानम्
प्रमेहनिदानम्
अथ प्रमेह-प्रमेहपिडकानिदानम् |
आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि |
नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम् ||१||
(च. चि. अ. ७) |
प्रमेहसम्प्राप्तिः
मेदश्च मांसं च शरीरजं च क्लेदं कफो बस्तिगतः प्रदूष्य |
करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि ||२||
क्षीणेषु दोषेष्ववकृष्य धातून् सन्दूष्य मेहान् कुरुतेऽनिलश्च |
साध्याः कफोत्था दश, पित्तजाः षड् याप्या, न साध्यः पवनाच्चतुष्कः ||३||
समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते |
(च. चि. अ. ६) |
प्रमेहाणां दोषदूष्यसङ्ग्रहः
कफः सपित्तः पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः |
मज्जा रसौजः पिशितं च दूष्याः प्रमेहिणां विंशतिरेव मेहाः ||४||
(च. चि. अ. ६) |
प्रमेहपूर्वरूपम्
दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयोः |
दाहश्चिक्कणता देहे तृट् स्वाद्वास्यं च जायते ||५||
प्रमेहसामान्यलक्षणम्
सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता |
दोषदूष्याविशेषेऽपि तत्संयोगविशेषतः ||६||
मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते |
(वा. नि. अ. १०) |
उदकमेह-इक्षुमेह-सान्द्रमेह- सुरामेह-पिष्टमेह-शुक्रमेह- सिकतामेह-शीतमेह-शनैर्मेह- लालामेहलक्षणम्
अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम् ||७||
मेहत्युदकमेहेन किञ्चिदाविलपिच्छिलम् |
इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः ||८||
सान्द्रीभवेत् पर्युषितं सान्द्रमेहेन मेहति |
सुरामेही सुरातुल्यमुपर्यच्छमधो घनम् ||९||
संहृष्टरोमा पिष्टेन पिष्टवद्बहलं सितम् |
शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति ||१०||
मूर्ताणून् सिकतामेही सिकतारूपिणो मलान् |
शीतमेही सुबहुशो मधुरं भृशशीतलम् ||११||
शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति |
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ||१२||
(वा. नि. अ. १०) |
क्षारमेह-नीलमेह-कालमेह- हारिद्रमेह-माञ्जिष्ठमेह- रक्तमेहलक्षणम्
गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत् |
नीलमेहेन नीलाभं कालमेही मसीनिभम् ||१३||
हारिद्रमेही कटुकं हरिद्रासन्निभं दहत् |
विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम् ||१४||
विस्रमुष्णं सलवणं रक्ताभं रक्तमेहतः |१५|
(वा. नि. अ. १०) |
वसामेह-मज्जमेह-क्षौद्रमेह- हस्तिमेहलक्षणम्
वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः ||१५||
मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः |
कषायं मधुरं रूक्षं क्षौद्रमेहं वदेद्बुधः ||१६||
हस्ती मत्त इवाजस्रं मूत्रं वेगविवर्जितम् |
सलसीकं विबद्धं च हस्तिमेही प्रमेहति ||१७||
(वा. नि. अ. १०) |
प्रमेहोपद्रवाः
अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः |
उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् ||१८||
बस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः |
दाहस्तृष्णाऽम्लिका मूर्छा विड्भेदः पित्तजन्मनाम् ||१९||
वातजानामुदावर्तः कम्पहृद्ग्रहलोलताः |
शूलमुन्निद्रता शोषः कासः श्वासश्च जायते ||२०||
(वा. नि. अ. १०) |
प्रमेहस्यासाध्यलक्षणम्
यथोक्तोपद्रवाविष्टमतिप्रस्रुतमेव च |
पिडकापीडितं गाढः प्रमेहो हन्ति मानवम् ||२१||
(सु. सू. अ. ३३) |
मधुमेहीजातस्य प्रमेहिणोऽसाध्यत्वम्
जातः प्रमेही मधुमेहिनो वा न साध्य उक्तः स हि बीजदोषात् |
ये चापि केचित् कुलजा विकारा भवन्ति तांस्तान् प्रवदन्त्यसाध्यान् ||२२||
(च. चि. अ. ६) |
उपेक्षया हि कफपित्तजानामपि मधुमेहत्वं, धातुक्षयावरणाभ्यां कुपितवातेन मधुमेहसम्भवश्च
सर्व एव प्रमेहास्तु कालेनाप्रतिकारिणः |
मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि ||२३||
(सु. नि. अ. ६) |
मधुमेहे मधुसमं जायते स किल द्विधा |
क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा ||२४||
आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयन् |
क्षणात् क्षीणः क्षणात् पूर्णो भजते कृच्छ्रसाध्यताम् ||२५||
(वा. नि. अ. १०) |
सर्वेषां प्रमेहाणां मधुमेहवाचित्वे निमित्तम्
मधुरं यच्च मेहेषु प्रायो मध्विव मेहति |
सर्वेऽपि मधुमेहाख्या माधुर्याच्च तनोरतः ||२६||
(वा. नि. अ. १०) |
प्रमेहोपेक्षया पिडकासम्भवः
शराविका कच्छपिका जालिनी विनताऽलजी |
मसूरिका सर्षपिका पुत्रिणी सविदारिका ||२७||
विद्रधिश्चेति पिडकाः प्रमेहोपेक्षया दश |
सन्धिमर्मसु जायन्ते मांसलेषु च धामसु ||२८||
(वा. नि. अ. १०) |
शराविका-सर्षपिका-कच्छपिका- जालिनी-विनता-पुत्रिणी- मसूरिका-अलजी-विदारिका- विद्रधिलक्षणम्
अन्तोन्नता तु तद्रूपा निम्नमध्या शराविका |
गौरसर्षपसंस्थाना तत्प्रमाणा च सर्षपी ||२९||
सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः |
जालिनी तीव्रदाहा तु मांसजालसमावृता ||३०||
अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा |
महती पिडका नीला विनता नाम सा स्मृता ||३१||
महत्यल्पचिता ज्ञेया पिडका चापि पुत्रिणी |
मसूराकृतिसंस्थाना विज्ञेया तु मसूरिका ||३२||
रक्ता सिता स्फोटचिता दारुणा त्वलजी भवेत् |
विदारीकन्दवद्वृत्ता कठिना च विदारिका ||३३||
विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा |३४|
(सु. नि. अ. ६) |
पिडकानामारम्भककारणम्
ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तन्मयाः ||३४||
(सु. नि. अ. ६) |
विना प्रमेहमप्येता जायन्ते दुष्टमेदसः |
तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहाः ||३५||
(च. सू. अ. १७) |
असाध्यपिडकालक्षणम्
गुदे हृदि शिरस्यंस्ये पृष्ठे मर्मसु चोत्थिताः |
सोपद्रवा दुर्बलाग्नेः पिडकाः परिवर्जयेत् ||३६||
(सु. नि. अ. ६) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने प्रमेहप्रमेहपिडकानिदानं समाप्तम् ||३३||