8. पाण्डुरोग कामला कुम्भकामला हलीमक निदानम्

पाण्डुरोगभेदाः
अथ पाण्डुरोगकामलाकुम्भकामलाहलीमकनिदानम् |
पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः |
चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः ||१||
(च. चि. अ. १६) |

पाण्डुरोगसम्प्राप्तिः
व्यायाममम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम् |
निषेवमाणस्य प्रदूष्य रक्तं दोषास्त्वचं पाण्डुरतां नयन्ति ||२||
(सु. उ. तं. अ. ४४) |

पाण्डुरोगपूर्वरूपम्
त्वक्स्फोटनष्ठीवनगात्रसादमृद्भक्षणप्रेक्षणकूटशोथाः |
विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ||३||
(सु. उ. तं. अ. ४४) |

वातिकपाण्डुरोगलक्षणम्
त्वङ्मूत्रनयनादीनां रूक्षकृष्णारुणाभताः |
वातपाण्ड्वामये तोदकम्पानाहभ्रमादयः ||४||

पैत्तिकपाण्डुरोगलक्षणम्
पीतमूत्रशकृन्नेत्रो दाहतृष्णाज्वरान्वितः |
भिन्नविट्कोऽतिपीताभः पित्तपाण्ड्वामयी नरः ||५||

श्लैष्मिकपाण्डुरोगलक्षणम्
कफप्रसेकश्वयथुतन्द्रालस्यातिगौरवैः |
पाण्डुरोगी कफाच्छुक्लैस्त्वङ्मूत्रनयनाननैः ||६||

सान्निपातिकपाण्डुरोगलक्षणम्
ज्वरारोचकहृल्लासच्छर्दितृष्णाक्लमान्वितः |
पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रियः ||७||

मृत्तिकाजन्यपाण्डुरोगसम्प्राप्तिः
मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः |
कषाया मारुतं, पित्तमूषरा, मधुरा कफम् ||८||
कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तं च रूक्षयेत् |
पूरयत्यविपक्वैव स्रोतांसि निरुणद्ध्यपि ||९||
इन्द्रियाणां बलं हत्वा तेजो वीर्यौजसी तथा |
पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् ||१०||
(च. चि. अ. १६) |

मृत्तिकाजन्यपाण्डुरोगलक्षणम्
शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः |
क्रिमिकोष्ठोऽतिसार्येत मलं सासृक्कफान्वितम् ||११||
(च. चि. अ. १६) |

पाण्डुरोगस्यासाध्यलक्षणम्
पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति |
कालप्रकर्षाच्छूनानां यो वा पीतानि पश्यति ||१२||
बद्धाल्पविट् सहरितं सकफं योऽतिसार्यते |
दीनः श्वेतातिदिग्धाङ्गश्छर्दिमूर्छातृडर्दितः ||१३||
स नास्त्यसृक्क्षयाद्यश्च पाण्डुः श्वेतत्वमाप्नुयात् |
(च. चि. अ. १६) |
पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत् |
पाण्डुसङ्घातदर्शी च पाण्डुरोगी विनश्यति ||१४||
(सु. सू. अ. ३३) |
अन्तेषु शूनं परिहीणमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम् |
गुदे च शेफस्यथ मुष्कयोश्च शूनं प्रताम्यन्तमसञ्ज्ञकल्पम् |
विवर्जयेत्पाण्डुकिनं यशोऽर्थी तथाऽतिसारज्वरपीडितं च ||१५||
(सु. उ. तं. अ. ४४) |

कामलाया निदानसम्प्राप्तिपूर्वकं लक्षणम्
पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते |
तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते ||१६||
हारिद्रनेत्रः स भृशं हारिद्रत्वङ्नखाननः |
रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रियः ||१७||
दाहाविपाकदौर्बल्यसदनारुचिकर्षितः |
कामला बहुपित्तैषा कोष्ठशाखाश्रया मता ||१८||
(च. चि. अ. १६) |

कुम्भकामलालक्षणम्
कालान्तरात् खरीभूता कृच्छ्रा स्यात् कुम्भकामला |१९|
(च. चि. अ. १६) |

कामलाया असाध्यलक्षणम्
कृष्णपीतशकृन्मूत्रो भृशं शूनश्च मानवः ||१९||
सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति |
दाहारुचितृडानाहतन्द्रामोहसमन्वितः ||२०||
नष्टाग्निसञ्ज्ञः क्षिप्रं हि कामलावान् विपद्यते |
(च. चि. अ. १६) |

कुम्भकामलाऽसाध्यलक्षणम्
छर्द्यरोचकहृल्लासज्वरक्लमनिपीडितः ||२१||
नश्यति श्वासकासार्तो विड्भेदी कुम्भकामली |२२|

हलीमकलक्षणम्
यदा तु पाण्डोर्वर्णः स्याद्धरितः श्यावपीतकः ||२२||
बलोत्साहक्षयस्तन्द्रा मन्दाग्नित्वं मृदुज्वरः |
स्त्रीष्वहर्षोऽङ्गमर्दश्च दाहस्तृष्णाऽरुचिर्भ्रमः |
हलीमकं तदा तस्य विद्यादनिलपित्ततः ||२३||
(सन्तापो भिन्नवर्चस्त्वं बहिरन्तश्च पीतता |
पाण्डुता नेत्रयोर्यस्य पानकीलक्षणं भवेत्) |
(च. चि. अ. १६) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने पाण्डुरोगकामलाकुम्भकामलाहलीमकनिदानं समाप्तम् ||८||