1.पञ्चनिदानलक्षणम्
मङ्गलाचरणम्
पञ्चनिदानलक्षणम् |
प्रणम्य जगदुत्पत्तिस्थितिसंहारकारणम् |
स्वर्गापवर्गयोर्द्वारं त्रैलोक्यशरणं शिवम् ||१||
ग्रन्थस्याभिधेयादयः
नानामुनीनां वचनैरिदानीं समासतः सद्भिषजां नियोगात् |
सोपद्रवारिष्टनिदानलिङ्गो निबध्यते रोगविनिश्चयोऽयम् ||२||
नानातन्त्रविहीनानां भिषजामल्पमेधसाम् |
सुखं विज्ञातुमातङ्कमयमेव भविष्यति ||३||
व्याधेर्ज्ञानोपायाः
निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा |
सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ||४||
(वा. नि. अ. १) |
निदानलक्षणम्
निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः |
निदानमाहुः पर्यायैः... |५|
(वा. नि. अ. १) |
पूर्वरूपलक्षणम्
...प्राग्रूपं येन लक्ष्यते ||५||
उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः |
लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम् ||६||
(वा. नि. अ. १) |
रूपलक्षणम्
तदेव व्यक्ततां यातं रूपमित्यभिधीयते |
संस्थानं व्यञ्जनं लिड्गं लक्षणं चिह्नमाकृतिः ||७||
(वा. नि. अ. १) |
उपशयलक्षणम्
हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम् |
औषधान्नविहाराणामुपयोगं सुखावहम् ||८||
विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः |
विपरीतोऽनुपशयो व्याध्यसात्म्याभिसञ्ज्ञितः ||९||
(वा. नि. अ. १) |
सम्प्राप्तिलक्षणम्
यथादुष्टेन दोषेण यथा चानुविर्सपता |
निर्वृत्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिः ||१०||
(वा. नि. अ. १) |
सम्प्राप्तेः औपाधिकभेदाः
सङ्ख्याविकल्पप्राधान्यबलकालविशेषतः |
सा भिद्यते यथाऽत्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति ||११||
दोषाणां समवेतानां विकल्पोंऽशांशकल्पना |
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ||१२||
हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषणम् |
नक्तन्दिनर्तुभुक्तांशैर्व्याधिकालो यथामलम् ||१३||
(वा. नि. अ. १) |
निदानपञ्चकोपसंहारः
इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते |१४|
(वा. नि. अ. १) |
वातादेः सर्वरोगेष्वव्यभिचरितकारणत्वम्
सर्वेषामेव रोगाणां निदानं कुपिता मलाः ||१४||
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् |१५|
(वा. नि. अ. १) |
रोगाणां निदानार्थकर्तृत्वम्
निदानार्थकरो रोगो रोगस्याप्युपजायते ||१५||
निदानार्थकररोगाः
तद्यथा ज्वरसन्तापाद्रक्तपित्तमुदीर्यते |
रक्तपित्ताज्ज्वरस्ताभ्यां शोषस्याप्युपजायते ||१६||
प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च |
अर्शोभ्यो जाठरं दुःखं गुल्मश्चाप्युपजायते ||१७||
(दिवास्वापादिदोषैश्च प्रतिश्यायश्च जायते) |
प्रतिश्यायादथो कासः कासात् सञ्जायते क्षयः |
क्षयो रोगस्य हेतुत्वे शोषस्याप्युपजायते ||१८||
(चि. नि. अ. ८) |
रोगाणां कदा निदानार्थकर्तृत्वं
ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणः |१९|
(च. नि. अ. ८) |
रोगजनकस्य व्याधेर्वैचित्र्यम्
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति ||१९||
न प्रशाम्यति चाप्यन्यो हेतुत्वं कुरुतेऽपि च |
एवं कृच्छ्रतमा नॄणां दृश्यन्ते व्याधिसङ्कराः ||२०||
(च. नि. अ. ८) |
निदानपञ्चकस्यावश्यज्ञातव्यता
तस्माद्यत्नेन सद्वैद्यैरिच्छद्भिः सिद्धिमुद्धताम् |
ज्ञातव्यो वक्ष्यते योऽयं ज्वरादीनां विनिश्चयः ||२१||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने पञ्चनिदानलक्षणं समाप्तम् ||१||