18. पानात्ययपरमद पानाजीर्णपानविभ्रम निदानम्
मदात्ययनिदानम्
अथ पानात्यय-परमद-पानाजीर्ण-पानविभ्रमनिदानम् |
ये विषस्य गुणाः प्रोक्तास्तेऽपि मद्ये प्रतिष्ठिताः |
तेन मिथ्योपयुक्तेन भवत्युग्रो मदात्ययः ||१||
मद्यस्वभावः
किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् |
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् ||२||
प्राणाः प्राणभृतामन्नं तदयुक्त्या हिनस्त्यसून् |
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ||३||
(च. चि. अ. २४) |
विधिनोपयुक्तमद्यफलम्
विधिना मात्रया काले हितैरन्नैर्यथाबलम् |
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतोपमम् ||४||
(च. चि. अ. २४) |
स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम् |
भवेदायुःप्रकर्षाय बलायोपचयाय च ||५||
काम्यता मनसस्तुष्टिस्तेजो विक्रम एव च |
विधिवत्सेव्यमाने तु मद्ये सन्निहिता गुणाः ||६||
(सु. उ. तं. अ. ४७) |
प्रथममदलक्षणम्
बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्ननिद्रारतिवर्धनश्च |
सम्पाठगीतस्वरवर्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि ||७||
द्वितीयमदलक्षणम्
अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाकृतिरप्रशान्तः |
आलस्यनिद्राभिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन ||८||
तृतीयमदलक्षणम्
गच्छेदगम्यान्न गुरूंश्च मन्येत् खादेदभक्ष्याणि च नष्टसञ्ज्ञः |
ब्रूयाच्च गुह्यानि हृदि स्थितानि मदे तृतीये पुरुषोऽस्वतन्त्रः ||९||
चतुर्थमदलक्षणम्
चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रियः |
कार्याकार्यविभागज्ञो मृतादप्यपरो मृतः ||१०||
को मदं तादृशं गच्छेदुन्मादमिव चापरम् |
बहुदोषमिवामूढः कान्तारं स्ववशः कृती ||११||
अविधिकृतमद्यपानस्य विकारान्तरहेतुत्वम्
निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् |
आपादयेत्कष्टतमान्विकारानापादयेच्चापि शरीरभेदम् ||१२||
(स. उ. अ. ४७) |
अन्नसहितस्यापि मद्यस्य क्रुद्धत्वादिकारणसहितस्य विकारकारित्वप्रदर्शनम्
क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन |
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ||१३||
अत्यम्बुभक्षावततोदरेण साजीर्णभुक्तेन तथाऽबलेन |
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् ||१४||
(सु. उ. तं. अ. ४७) |
मद्योत्थविकारभेदाः
पानात्ययं परमदं पानाजीर्णमथापि वा |
पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् ||१५||
(सु. उ. तं. अ. ४७) |
वातिक-पैत्तिक-श्लैष्मिकमदात्ययलक्षणम्
हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः |
विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् ||१६||
तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः |
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ||१७||
छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः |
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् |
ज्ञेयस्त्रिदोषजश्चापि सर्वलिङ्गैर्मदात्ययः ||१८||
(च. चि. अ. २४) |
परमदलक्षणम्
श्लेष्मोच्छ्रयोऽङ्गगुरुता विरसास्यता च विण्मूत्रसक्तिरथ तन्द्रिररोचकश्च |
लिङ्गं परस्य च मदस्य वदन्ति तज्ज्ञास्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ||१९||
(सु. उ. तं. अ. ४७) |
पानाजीर्णलक्षणम्
आध्मानमुग्रमथ चोद्गिरणं विदाहः पानेऽजरां समुपगच्छति लक्षणानि |२०|
(सु. उ. तं. अ. ४७) |
पानविभ्रमलक्षणम्
हृद्गात्रतोदकफसंस्रवकण्ठधूमा मूर्छावमिज्वरशिरोरुजनप्रदाहाः ||२०||
द्वेषः सुरान्नविकृतेष्वपि तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः |
(सु. उ. तं. अ. ४७) |
पानात्ययादीनामसाध्यलक्षणम्
हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमपि पानहतं त्यजेत्तु ||२१||
जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे वा |
(सु. उ. तं. अ. ४७) |
पानात्ययादीनामुपद्रवाः
हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते ||२२||
(सु. उ. तं. अ. ४७) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानं समाप्तम् ||१८||