45. नाडीव्रणनिदानम्

नाडीव्रणस्य सम्प्राप्तिः
अथ नाडीव्रणनिदानम् |
यः शोथमाममतिपक्वमुपेक्षतेऽज्ञो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः |
अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः सपूयः ||१||
(सु. नि. अ. १०) |

नाडीव्रणस्य निरुक्तिः
तस्यातिमात्रगमनाद्गतिरिष्यते तु नाडीव यद्वहति तेन मता तु नाडी |२|
(सु. नि. अ. १०) |

नाडीव्रणसङ्ख्या
दोषैस्त्रिभिर्भवति सा पृथगेकशश्च सम्मूर्छितैरपि च शल्यनिमित्ततोऽन्या ||२||
(सु. नि. अ. १०) |

वातजनाडीव्रणलक्षणम्
तत्रानिलात् परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपासु |३|
(सु. नि. अ. १०) |

पित्तजनाडीव्रणलक्षणम्
पित्तात्तृषाज्वरकरी परिदाहयुक्ता पीतं स्रवत्यधिकमुष्णमहःसु चापि ||३||
(सु. नि. अ. १०) |

कफजनाडीव्रणलक्षणम्
ज्ञेया कफाद्बहुघनार्जुनपिच्छिलास्रा स्तब्धा सकण्डुररुजा रजनीप्रवृद्धा |४|
(सु. नि. अ. १०) |

त्रिदोषजनाडीव्रणलक्षणम्
दाहज्वरश्वसनमूर्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि ||४||
तामादिशेत् पवनपित्तकफप्रकोपाद्घोरामसुक्षयकरीमिव कालारात्रिम् |
(सु. नि. अ. १०) |

शल्यनिमित्तजनाडीव्रणलक्षणम्
नष्टं कथञ्चिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति ||५||
सा फेनिलं मथितमुष्णमसृग्विमिश्रं स्रावं करोति सहसा सरुजा च नित्यम् |
(सु. नि. अ. १०) |

नाडीव्रणस्य साध्यत्वादिलक्षणम्
नाडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्रः खलु यत्नसाध्याः ||६||
(सु. चि. अ. १७) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने नाडीव्रणनिदानं समाप्तम् ||४५||