31. मूत्राघातनिदानम्

मूत्राघातनिदानम्
अथ मूत्राघातनिदानम् |
जायन्ते कुपितैर्दोषैर्मूत्राघातास्त्रयोदश |
प्रायो मूत्रविघाताद्यैर्वातकुण्डलिकादयः ||१||

वातकुण्डलिकालक्षणम्
रौक्ष्याद्वेगविघाताद्वा वायुर्बस्तौ सवेदनः |
मूत्रमाविश्य चरति विगुणः कुण्डलीकृतः ||२||
मूत्रमल्पाल्पमथवा सरुजं सम्प्रवर्तते |
वातकुण्डलिकां तां तु व्याधिं विद्यात् सुदारुणम् ||३||
(सु. उ. तं. अ. ५८) |

अष्ठीलालक्षणम्
आध्मापयन् बस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम् |
कुर्यात्तीव्रार्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम् ||४||

वातबस्तिलक्षणम्
वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः |
निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः ||५||
मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः |
वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ||६||
(सु. उ. तं. अ. ५८) |

मूत्रातीतलक्षणम्
चिरं धारयतो मूत्रं त्वरया न प्रवर्तते |
मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते ||७||

मूत्रजठरलक्षणम्
मूत्रस्य वेगेऽभिहते तदुदावर्तहेतुकः |
अपानः कुपितो वायुरुदरं पूरयेद्भृशम् ||८||
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम् |
तन्मूत्रजठरं विद्यादधोबस्तिनिरोधनम् ||९||
(सु. उ. तं. अ. ५८) |

मूत्रोत्सङ्गलक्षणम्
बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः |
मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः ||१०||
स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम् |
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसञ्ज्ञितः ||११||
(सु. उ. तं. अ. ५८) |

मूत्रक्षयलक्षणम्
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ |
मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् ||१२||
(सु. उ. तं. अ. ५८) |

मूत्रग्रन्थिलक्षणम्
अन्तर्बस्तिमुखे वृत्तः स्थिरोऽल्पः सहसा भवेत् |
अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते ||१३||
(वा. नि. अ. ९) |

मूत्रशुक्रलक्षणम्
मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धतम् |
स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद्वा प्रवर्तते ||१४||
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते |
(वा. नि. अ. ९) |

उष्णवातलक्षणम्
व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलान्वितम् ||१५||
बस्तिं मेढ्रं गुदं चैव प्रदहेत् स्रावयेदधः |
मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा ||१६||
कृच्छ्रात् पुनः पुनर्जन्तोरुष्णवातं ब्रुवन्ति तम् |
(सु. उ. तं. अ. ५८) |

मूत्रसादलक्षणम्
पित्तं कफो द्वावपि वा संहन्येतेऽनिलेन चेत् ||१७||
कृच्छ्रान्मूत्रं तदा पीतं श्वेतं रक्तं घनं सृजेत् |
सदाहं रोचनाशङ्खचूर्णवर्णं भवेत्तु तत् ||१८||
शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम् |
(वा. नि. अ. ९) |

विड्विघातलक्षणम्
रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा ||१९||
मूत्रस्रोतोऽनुपद्येत विट्संसृष्टं तदा नरः |
विड्गन्धं मूत्रयेत् कृच्छ्राद्विड्विघातं विनिर्दिशेत् ||२०||
(वा. नि. अ. ९) |

बस्तिकुण्डललक्षणम्
द्रुताध्वलङ्घनायासैरभिघातात् प्रपीडनात् |
स्वस्थानाद्बस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत् ||२१||
शूलस्पन्दनदाहार्तो बिन्दुं बिन्दुं स्रवत्यपि |
पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान् ||२२||
बस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम् |
पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः |२४|

बस्तिकुण्डलस्य दोषान्तरसंसृष्टस्य लक्षणम्
तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता ||२३||
श्लेष्मणा गौरवं शोथः स्निग्धं मूत्रं घनं सितम् |२४|

बस्तिकुण्डलस्य साध्यासाध्यविचारः
श्लेष्मरुद्धबिलो बस्तिः पित्तोदीर्णो न सिध्यति ||२४||
अविभ्रान्तबिलः साध्यो, न तु यः कुण्डलीकृतः |२५|

कुण्डलीभूतबस्तेर्लक्षणम्
स्याद्बस्तौ कुण्डलीभूते तृण्मोहः श्वास एव च ||२५||

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने मूत्राघातनिदानं समाप्तम् ||३१||