56. मुखरोगनिदानम्

मुखरोगनिदानम्
अथ मुखरोगनिदानम् |
आनूपपिशितक्षीरदधिमत्स्यातिसेवनात् |
मुखमध्ये गदान् कुर्युः क्रुद्धा दोषाः कफोत्तराः ||१||

वातजौष्ठरोगलक्षणम्
कर्कशौ परुषौ स्तब्धौ सम्प्राप्तानिलवेदनौ |
दाल्येते परिपाट्यते ओष्ठौ मारुतकोपतः ||२||
(सु. नि. अ. १६) |

पित्तजौष्ठरोगलक्षणम्
चीयेते पिडकाभिश्च सरुजाभिः समन्ततः |
सदाहपाकपिडकौ पीताभासौ च पित्ततः ||३||
(सु. नि. अ. १६) |

कफजौष्ठरोगलक्षणम्
सवर्णाभिश्च चीयेते पिडकाभिरवेदनौ |
भवतस्तु कफादोष्ठौ पिच्छिलौ शीतलौ गुरू ||४||
(सु. नि. अ. १६) |

सन्निपातजौष्ठरोगलक्षणम्
सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च |
सन्निपातेन विज्ञेयावनेकपिडकाचितौ ||५||
(सु. नि. अ. १६) |

रक्तजौष्ठरोगलक्षणम्
खर्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ |
रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ||६||
(सु. नि. अ. १६) |

मांसजौष्ठरोगलक्षणम्
गुरू स्थूलौ मांसदुष्टौ मांसपिण्डवदुद्गतौ |
जन्तवश्चात्र मूर्छन्ति नरस्योभयतो मुखात् ||७||
(सु. नि. अ. १६) |

मेदोजौष्ठरोगलक्षणम्
सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ गुरू |
अच्छं स्फटिकसङ्काशमास्रावं स्रवतो भृशम् ||८||
(सु. नि. अ. १६) |
तयोर्व्रणो न संरोहेन्मृदुत्वं च न गच्छति |९|

अभिघातजौष्ठरोगलक्षणम्
क्षतजाभौ विदीर्येते पाट्येते चाभिघाततः ||९||
ग्रथितौ च तथा स्यातामोष्ठौ कण्डूसमन्वितौ |१०|
(सु. नि. अ. १६) |

शीतादलक्षणम्
शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते |
दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च ||१०||
दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम् |
शीतादो नाम स व्याधिः कफशोणितसम्भवः ||११||
(सु. नि. अ. १६) |

दन्तपुप्पुटलक्षणम्
दन्तयोस्त्रिषु वा यस्य श्वयथुर्जायते महान् |
दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः ||१२||
(सु. नि. अ. १६) |

दन्तवेष्टलक्षणम्
स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च |
दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः ||१३||
(सु. नि. अ. १६) |

शौषिरलक्षणम्
श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः |
लालास्रावी स विज्ञेयः शौषिरो नाम नामतः ||१४||
(सु. नि. अ. १६) |

महाशौषिरलक्षणम्
दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते |
यस्मिन् स सर्वजो व्याधिर्महाशौषिरसञ्ज्ञितः ||१५||
(सु. नि. अ. १६) |

परिदरलक्षणम्
दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् |
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ||१६||
(सु. नि. अ. १६) |

उपकुशलक्षणम्
वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति च |
यस्मिन् सोपकुशो नाम पित्तरक्तकृतो गदः ||१७||
(सु. नि. अ. १६) |

वैदर्भलक्षणम्
घृष्टेषु दन्तमांसेषु संरम्भो जायते महान् |
चला भवन्ति दन्ताश्च स वैदर्भोऽभिघातजः ||१८||
(सु. नि. अ. १६) |

खलिवर्धनलक्षणम्
मारुतेनाधिको दन्तो जायते तीव्रवेदनः |
खलिवर्धनसञ्ज्ञोऽसौ जाते रुक् च प्रशाम्यति ||१९||
(सु. नि. अ. १६) |

कराललक्षणम्
शनैः शनैः प्रकुरुते वायुर्दन्तसमाश्रितः |
करालान् विकटान् दन्तान् करालो न स सिध्यति ||२०||

अधिमांसलक्षणम्
हानव्ये पश्चिमे दन्ते महाञ्छोथो महारुजः |
लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः |२१|
(सु. नि. अ. १६) |

दन्तनाडीलक्षणम्
दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ||२१||
(सु. नि. अ. १६) |

दालनलक्षणम्
दीर्यमाणेष्विव रुजा यस्य दन्तेषु जायते |
दालनो नाम स व्याधिः सदागतिनिमित्तजः ||२२||
(सु. नि. अ. १६) |

क्रिमिदन्तलक्षणम्
कृष्णच्छिद्रश्चलः स्रावी ससंरम्भो महारुजः |
अनिमित्तरुजो वाताद्विज्ञेयः क्रिमिदन्तकः ||२३||
(सु. नि. अ. १६) |

भञ्जनकलक्षणम्
वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च जायते |
कफवातकृतो व्याधिः स भञ्जनकसञ्ज्ञितः ||२४||
(सु. नि. अ. १६) |

दन्तहर्षलक्षणम्
शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्विजाः |
पित्तमारुतकोपेन दन्तहर्षः स नामतः ||२५||

दन्तशर्करालक्षणम्
मलो दन्तगतो यस्तु पित्तमारुतशोषितः |
शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ||२६||

कपालिकालक्षणम्
कपालेष्विव दीर्यत्सु दन्तानां सैव शर्करा |
कपालिकेति विज्ञेया सदा दन्तविनाशिनी ||२७||

श्यावदन्तक-दन्तविद्रधिरोगलक्षणम्
योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः |
श्यावतां नीलतां वाऽपि गतः स श्यावदन्तकः ||२८||
(सु. नि. अ. १६) |
दन्तमांसे मलैः सास्रैर्बाह्यान्तः श्वयथुर्गुरुः |
सदाहरुक् स्रवेद्भिन्नः पूयास्रं दन्तविद्रधिः ||२९||

वातजजिह्वारोग-पित्तजजिह्वारोग- कफजजिह्वारोगलक्षणम्
जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा |
पित्तेन दह्यत्युपचीयते च दीर्घैः सरक्तैरपि कण्टकैश्च |
कफेन गुर्वी बहुला चिता च मांसोच्छ्रयैः शाल्मलिकण्टकाभैः ||३०||
(सु. नि. अ. १६) |

अलासलक्षणम्
जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससञ्ज्ञः कफरक्तमूर्तिः |
जिह्वां स तु स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ||३१||
(सु. नि. अ. १६) |

उपजिह्विकालक्षणम्
जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नम्य जातः कफरक्तमूलः |
लालाकरः कण्डुयुतः सचोषः सा तूपजिह्वा पठिता भिषग्भिः ||३२||
(सु. नि. अ. १६) |

कण्ठशुण्डीलक्षणम्

श्लेष्मासृग्भ्यां तालुमूले प्रवृद्धो दीर्घः शोथो ध्मातबस्तिप्रकाशः |
तृष्णाकासश्वासकृत्तं वदन्ति व्याधिं वैद्याः कण्ठशुण्डीति नाम्ना ||३३||
(सु. नि. अ. १६) |

तुण्डिकेरीलक्षणम्
शोथः स्थूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु |३४|
(सु. नि. अ. १६) |

अध्रुषलक्षणम्
मृदुः शोथो लोहितः शोणितोत्थो ज्ञेयोऽध्रुषः सज्वरस्तीव्ररुक् च ||३४||
(सु. नि. अ. १६) |

कच्छपलक्षणम्
कूर्मोन्नतोऽवेदनोऽशीघ्रजन्मा रोगो ज्ञेयः कच्छपः श्लेष्मणा तु |३५|
(सु. नि. अ. १६) |

ताल्वर्बुद- मांससङ्घातलक्षणम्
पद्माकारं तालुमध्ये तु शोथं विद्याद्रक्तादर्बुदं प्रोक्तलिङ्गम् ||३५||
दुष्टं मांसं नीरुजं तालुमध्ये कफाच्छूनं मांससङ्घातमाहुः |
(सु. नि. अ. १६) |

तालुपुप्पुट-तालुशोष- तालुपाकलक्षणम्

नीरुक् स्थायी कोलमात्रः कफात् स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे ||३६||
शोषोऽत्यर्थं दीर्यते चापि तालुः श्वासश्चोग्रस्तालुशोषोऽनिलाच्च |
पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति ||३७||
(सु. नि. अ. १६) |

रोहिणीसम्प्राप्तिः

गलेऽनिलः पित्तकफौ च मूर्छितौ प्रदूष्य मांसं च तथैव शोणितम् |
गलोपसंरोधकरैस्तथाऽङ्कुरैर्निहन्त्यसून् व्याधिरियं हि रोहिणी ||३८||
(सु. नि. अ. १६) |

वातजादिभेदेन रोहिणीलक्षणानि
जिह्वासमन्ताद्भृशवेदनास्तु मांसाङ्कुराः कण्ठनिरोधिनो ये |
सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्रवगाढयुक्ता ||३९||
क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा तु |
स्रोतोविरोधिन्यचलोद्गता च स्थिराङ्कुरा या कफसम्भवा सा ||४०||
गम्भीरपाकिन्यनिवार्यवीर्या त्रिदोषलिङ्गा त्रितयोत्थिता च |
स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु ||४१||
(सु. नि. अ. १६) |

कण्ठशालूकलक्षणम्

कोलास्थिमात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकशूकभूतः |
खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति ब्रुवन्ति ||४२||
(सु. नि. अ. १६) |

अधिजिह्विकालक्षणम्
जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वोपरिष्टादपि रक्तमिश्रात् |
ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम् ||४३||
(सु. नि. अ. १६) |

वलयलक्षणम्
बलाश एवायतमुन्नतं च शोथं करोत्यन्नगतिं निवार्य |
तं सर्वथैवाप्रतिवार्यवीर्यं विवर्जनीयं वलयं वदन्ति ||४४||
(सु. नि. अ. १६) |

बलासलक्षणम्
गले तु शोथं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम् |
मर्मच्छिदं दुस्तरमेनमाहुर्बलाशसञ्ज्ञं निपुणा विकारम् ||४५||
(सु. नि. अ. १६) |

एकवृन्दलक्षणम्
वृत्तोन्नतोऽन्तः श्वयथुः सदाहः सकण्डुरोऽपाक्यमृदुर्गुरुश्च |
नाम्नैकवृन्दः परिकीर्तितोऽसौ व्याधिर्बलाशक्षतजप्रसूतः ||४६||
(सु. नि. अ. १६) |

वृन्दलक्षणम्
समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति |
तच्चापि पित्तक्षतजप्रकोपाज्ज्ञेयं सतोदं पवनात्मकं तु ||४७||
(सु. नि. अ. १६) |

शतघ्नीलक्षणम्
वर्तिर्घना कण्ठनिरोधिनी या चिताऽतिमात्रं पिशितप्ररोहैः |
अनेकरुक् प्राणहरी त्रिदोषाज्ज्ञेया शतघ्नी च शतघ्निरूपा ||४८||
(सु. नि. अ. १६) |

गलायुलक्षणम्
ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽतिरुग्यः कफरक्तमूर्तिः |
संलक्ष्यते सक्तमिवाशनं च स शस्त्रसाध्यस्तु गलायुसञ्ज्ञः ||४९||
(सु. नि. अ. १६) |

गलविद्रधिलक्षणम्
सर्वं गलं व्याप्य समुत्थितो यः शोथो रुजः सन्ति च यत्र सर्वाः |
स सर्वदोषैर्गलविद्रधिस्तु तस्यैव तुल्यः खलु सर्वजस्य ||५०||
(सु. नि. अ. १६) |

गलौघलक्षणम्
शोथो महानन्नजलावरोधी तीव्रज्वरो वायुगतेर्निहन्ता |
कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यते तु ||५१||
(सु. नि. अ. १६) |

स्वरघ्नलक्षणम्
यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः |
कफोपदिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ||५२||
(सु. नि. अ. १६) |

मांसतानलक्षणम्
प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण |
स मांसतानः कथितोऽवलम्बी प्राणप्रणुत् सर्वकृतो विकारः ||५३||
(सु. नि. अ. १६) |

विदारीलक्षणम्
सदाहतोदं श्वयथुं सुताम्रमन्तर्गले पूतिविशीर्णमांसम् |
पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते ||५४||
(सु. नि. अ. १६) |

वातजसर्वसर(मुखपाक)-पित्तजसर्वसर(मुखपाक)– कफजसर्वसर(मुखपाक)लक्षणम्
स्फोटैः सतोदैर्वदनं समन्ताद्यस्याचितं सर्वसरः स वातात् |
रक्तैः सदाहैस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात् |
अवेदनैः कण्डुयुतैः सवर्णैर्यस्याचितं चापि स वै कफेन ||५५||
(सु. नि. अ. १६) |

ओष्ठप्रकोपादिष्वसाध्याः
ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः |
दन्तमूलेषु वर्ज्यौ च त्रिलिङ्गगतिशौषिरौ ||५६||
दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः |
जिह्वारोगे बलाशस्तु तालव्येष्वर्बुदं तथा ||५७||
स्वरघ्नो वलयो वृन्दो बलाशश्च विदारिका |
गलौघो मांसतानश्च शतघ्नी रोहिणी गले ||५८||
असाध्याः कीर्तिता ह्येते रोगा नव दशैव तु |
तेषु चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ||५९||
(सु. नि. अ. १६) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने मुखरोगनिदानं समाप्तम् ||५६||