30. मूत्रकृच्छ्रनिदानम्
मूत्रकृच्छ्रनिदानं, सम्प्राप्तिश्च
अथ मूत्रकृच्छ्रनिदानम् |
व्यायामतीक्ष्णौषधरूक्षमद्यप्रसङ्गनित्यद्रुतपृष्ठयानात् |
आनूपमांसाध्यशनादजीर्णात्स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ ||१||
पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथवा कोपमुपेत्य बस्तौ |
मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् ||२||
(च. चि. अ. २६) |
वातज-पित्तज-कफज-सन्निपातज- शल्याभिघातज-शकृत्प्रतिघातज-अश्मरीज- शुक्रजमूत्रकृच्छ्रलक्षणम्
तीव्रार्तिरुग्वङ्क्षणबस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात् |
पीतं सरक्तं सरुजं सदाहं कृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ||३||
बस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे |
सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति तत्कृच्छ्रतमं हि कृच्छ्रम् ||४||
(च. चि. अ. २६) |
मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु वा |
मूत्रकृच्छ्रं तदाघाताज्जायते भृशदारुणम् ||५||
वातकृच्छ्रेण तुल्यानि तस्य लिङ्गानि निर्दिशेत् |
शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः ||६||
आध्मानं वातशूलं च मूत्रसङ्गं करोति च |
अश्मरीहेतु तत्पूर्वं मूत्रकृच्छ्रमुदाहरेत् ||७||
(सु. उ. तं. अ. ५९) |
शुक्रे दोषैरुपहते मूत्रमार्गे विधाविते
सशुक्रं मूत्रयेत् कृच्छ्राद्बस्तिमेहनशूलवान् ||८||
मूत्रकृच्छ्रहेतुत्वेनोक्तयोरश्मरीशर्करयोः समानताऽवान्तरभेदश्च
अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे |
विशेषणं शर्करायाः शृणु कीर्तयतो मम ||९||
पच्यमानाऽश्मरी पित्ताच्छोष्यमाणा च वायुना |
विमुक्तकफसन्धाना क्षरन्ती शर्करा मता ||१०||
हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः |
तया भवति मूर्छा च मूत्रकृच्छ्रं च दारुणम् ||११||
मूत्रवेगनिरस्ताभिः प्रशमं याति वेदना |
यावदस्याः पुनर्नैति गुडिका स्रोतसो मुखम् ||१२||
(सु. उ. तं. अ. ५९) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने मूत्रकृच्छ्रनिदानं समाप्तम् ||३०||