17. मूर्छाभ्रमनिद्रातन्द्रासन्न्यास निदानम्
मूर्छाया निदानं सम्प्राप्तिश्च
अथ मूर्छा-भ्रम-निद्रा-तन्द्रा-सन्न्यासनिदानम् |
क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः |
वेगाघातादभिघाताद्धीनसत्त्वस्य वा पुनः ||१||
करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च |
निविशन्ते यदा दोषास्तदा मूर्छन्ति मानवाः ||२||
सञ्ज्ञावहासु नाडीषु पिहितास्वनिलादिभिः |
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ||३||
सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् |
मोहो मूर्छेति तामाहुः षड्विधा सा प्रकीर्तिता ||४||
वातादिभिः शोणितेन मद्येन च विषेण च |
षट्स्वप्येतासु पित्तं तु प्रभुत्वेनावतिष्ठते ||५||
(सु. उ. तं. अ. ४६) |
मूर्छापूर्वरूपम्
हृत्पीडा जृम्भणं ग्लानिः सञ्ज्ञादौर्बल्यमेव च |
सर्वासां पूर्वरूपाणि, यथास्वं ता विभावयेत् ||६||
(सु. उ. तं. अ. ४६) |
वातजमूर्छायलक्षणम्
नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम् |
पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते ||७||
वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च |
कार्श्यं श्यावाऽरुणा छाया मूर्छाये वातसम्भवे ||८||
(च. सू. अ. २४) |
पित्तजमूर्छायलक्षणम्
रक्तं हरितवर्णं वा वियत् पीतमथापि वा |
पश्यंस्तमः प्रविशति सस्वेदश्च प्रबुध्यते ||९||
(सपिपासः ससन्तापो रक्तपीताकुलेक्षणः) |
जातमात्रे पतति च शीघ्रं च प्रतिबुध्यते |
सम्भिन्नवर्चाः पीताभो मूर्छाये पित्तसम्भवे ||१०||
(च. सू. अ. २४) |
कफजमूर्छायलक्षणम्
मेघसङ्काशमाकाशमावृतं वा तमोघनैः |
पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ||११||
गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा |
सप्रसेकः सहृल्लासो मूर्छाये कफसम्भवे ||१२||
(च. सू. अ. २४) |
सान्निपातिकमूर्छायलक्षणम्
सर्वाकृतिः सन्निपातादपस्मार इवागतः |
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः ||१३||
(च. सू. अ. २४) |
रक्तजमूर्छायसम्प्राप्तिः
पृथिव्यापस्तमोरूपं रक्तगन्धस्तदन्वयः |
तस्माद्रक्तस्य गन्धेन मूर्छन्ति भुविमानवाः ||१४||
द्रव्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति |
(सु. उ. तं. अ. ४६) |
विषजमूर्छायस्य मद्यजमूर्छायस्य च सम्प्राप्तिः
गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः ||१५||
त एव तस्मात्ताभ्यां तु मोहौ स्यातां यथेरितौ |
(सु. उ. तं. अ. ४६) |
रक्तजादिमूर्छात्रयस्य रूपाणि
स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्छितः ||१६||
मद्येन विलपंश्छेते नष्टविभ्रान्तमानसः |
गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् ||१७||
वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्छिते |
वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः ||१८||
(सु. उ. तं. अ. ४६) |
मूर्छाभ्रमतन्द्रानिद्रादीनां परस्परं भेदः, भ्रमलक्षणं च
मूर्छा पित्ततमःप्राया रजःपित्तानिलाद्भ्रमः |
तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा ||१९||
(सु. शा. अ. ४) |
(चक्रवद्भ्रमतो गात्रं भूमौ पतति सर्वदा |
भ्रमरोग इति ज्ञेयो रजःपित्तानिलात्मकः) |
तन्द्रालक्षणम्
इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः |
निद्रार्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ||२०||
(सु. शा. अ. २४) |
सन्न्यासस्य मूर्छादिभ्यो भेदः
दोषेषु मदमूर्छायाः कृतवेगेषु देहिनाम् |
स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना ||२१||
(च. सू. अ. २४) |
सन्न्यासलक्षणम्
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः |
सन्न्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः ||२२||
स ना सन्न्याससन्न्यस्तः काष्ठीभूतो मृतोपमः |
प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यःफलां क्रियाम् ||२३||
(च. सू. अ. २४) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने मूर्छाभ्रमनिद्रातन्द्रासन्न्यासनिदानं समाप्तम् ||१७||