64. मूढगर्भनिदानम्

गर्भस्य स्रावपातयोर्निदानपूर्वकं पूर्वरूपम्
अथ मूढगर्भनिदानम् |
भयाभिघातात्तीक्ष्णोष्णपानाशननिषेवणात् |
गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् ||१||

गर्भस्रावगर्भपातयोः कालभेदः
आचतुर्थात्ततो मासात् प्रस्रवेद्गर्भविद्रवः |
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ||२||
(सु. नि. अ. ८) |

गर्भस्याकालपाते निदानपूर्वको दृष्टान्तः
गर्भोऽभिघातविषमाशनपीडनाद्यैः पक्वं द्रुमादिव फलं पतति क्षणेन |३|

उचितप्रसवकाले मूढगर्भस्य स्थितिः
मूढः करोति पवनः खलु मूढगर्भं शूलं च योनिजठरादिषु मूत्रसङ्गम् ||३||

मूढगर्भस्याष्टविधा गतिः
भुग्नोऽनिलेन विगुणेन ततः स गर्भः सङ्ख्यामतीत्य बहुधा समुपैति योनिम् |
द्वारं निरुध्य शिरसा जठरेण कश्चित् कश्चिच्छरीरपरिवर्तितकुब्जदेहः ||४||
एकेन कश्चिदपरस्तु भुजद्वयेन तिर्यग्गतो भवति कश्चिदवाङ्मुखोऽन्यः |
पार्श्वापवृत्तगतिरेति तथैव कश्चिदित्यष्टधा गतिरियं ह्यपरा चतुर्धा ||५||

मूढगर्भस्यापरा चतुःप्रकारा गतिः
सङ्कीलकः प्रतिखुरः परिघोऽथ बीजस्तेषूर्ध्वबाहुचरणैः शिरसा च योनिम् |
सङ्गी च यो भवति कीलकवत् स कीलो दृश्यैः खुरैः प्रतिखुरं स हि कायसङ्गी |
गच्छेद्भुजद्वयशिराः स च बीजकाख्यो योनौ स्थितः स परिघः परिघेण तुल्यः ||६||

असाध्यमूढगर्भगर्भिण्योर्लक्षणम्
अपविद्धशिरा या तु शीताङ्गी निरपत्रपा |
नीलोद्गतसिरा हन्ति सा गर्भं स च तां तथा ||७||
(सु. नि. अ. ८) |

अन्तर्मृतगर्भलक्षणम्
गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता |
भवेदुच्छ्वासपूतित्वं शूनताऽन्तर्मृते शिशौ ||८||
(सु. नि. अ. ८) |

मानसागन्तुदुःख-व्याधिभेदेन द्विविधो गर्भमरणहेतुः
मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः |
गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च निपीडितः ||९||
(सु. नि. अ. ८) |

अपरमसाध्यगर्भिणीलक्षणम्
योनिसंवरणं सङ्गः कुक्षौ मक्कल्ल एव च |
हन्युः स्त्रियं मूढगर्भां यथोक्ताश्चाप्युपद्रवाः ||१०||
वायुः प्रकुपितः कुर्यात् संरुध्य रुधिरं स्रुतम् |
सूताया हृच्छिरोबस्तिशूलं मक्कल्लसञ्ज्ञकम् ||११||

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने मूढगर्भनिदानं समाप्तम् ||६४||