34. मेदोरोगनिदानम्

मेदोरोगनिदान-सम्प्राप्ति-लक्षणानि, अतिस्थूललक्षणं च
अथ मेदोरोगनिदानम् |
अव्यायामदिवास्वप्नश्लेष्मलाहारसेविनः |
मधुरोऽन्नरसः प्रायः स्नेहान्मेदः प्रवर्धयेत् ||१||
मेदसाऽऽवृतमार्गत्वात् पुष्यन्त्यन्ये न धावतः |
मेदस्तु चीयते तस्मादशक्तः सर्वकर्मसु ||२||
क्षुद्रश्वासतृषामोहस्वप्नक्रथनसादनैः |
युक्तः क्षुत्स्वेददुर्गन्धैरल्पप्राणोऽल्पमैथुनः ||३||
मेदस्तु सर्वभूतानामुदरेष्वस्थिषु स्थितम् |
अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ||४||
मेदसाऽऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः |
चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि ||५||
तस्मात् स शीघ्रं जरयत्याहारमभिकाङ्क्षति |
विकारांश्चाप्नुते घोरान् कांश्चित् कालव्यतिक्रमात् ||६||
एतावुपद्रवकरौ विशेषादग्निमारुतौ |
एतौ तु दहतः स्थूलं वनदावो वनं यथा ||७||
मेदस्यतीव संवृद्धे सहसैवानिलादयः |
विकारान् दारुणान् कृत्वा नाशयन्त्याशु जीवितम् ||८||
मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः |
अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ||९||
(च. सू. अ. २१) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने मेदोनिदानं समाप्तम् ||३४||