55. क्षुद्ररोगनिदानम्
अजगल्लिकालक्षणम्
अथ क्षुद्ररोगनिदानम् |
स्निग्धाः सवर्णा ग्रन्थिता नीरुजो मुद्गसन्निभाः |
कफवातोत्थिता ज्ञेया बालानामजगल्लिकाः ||१||
(सु. नि. अ. १३) |
यवप्रख्यालक्षणम्
यवाकारा सुकठिना ग्रथिता मांससंश्रिता |
पिडका कफवाताभ्यां यवप्रख्येति सोच्यते ||२||
(सु. नि. अ. १३) |
अन्त्रालजीलक्षणम्
घनामवक्त्रां पिडकामुन्नतां परिमण्डलाम् |
अन्त्रालजीमल्पपूयां तां विद्यात् कफवातजाम् ||३||
(सु. नि. अ. १३) |
विवृतालक्षणम्
विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम् |
विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ||४||
(सु. नि. अ. १३) |
कच्छपिकालक्षणम्
ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छपोपमाः |
कफानिलाभ्यां पिडका ज्ञेयाः कच्छपिका बुधैः ||५||
(सु. नि. अ. १३) |
वल्मीकलक्षणम्
ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः |
ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैव गतः प्रवृद्धिम् ||६||
मुखैरनेकैः स्रुतितोदवद्भिर्विसर्पवत् सर्पति चोन्नताग्रैः |
वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात् ||७||
इन्द्रविद्धालक्षणम्
पद्मकर्णिकवन्मध्ये पिडकाभिः समाचिताम् |
इन्द्रविद्धां तु तां विद्याद्वातपित्तोत्थितां भिषक् ||८||
(सु. नि. अ. १३) |
गर्दभिकालक्षणम्
मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम् |
रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम् ||९||
पाषाणगर्दभलक्षणम्
वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः |
स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्दभः ||१०||
पनसिकालक्षणम्
कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम् |
स्थिरां पनसिकां तां तु विद्याद्वातकफोत्थिताम् ||११||
जालगर्दभलक्षणम्
विसर्पवत् सर्पति यः शोथस्तनुरपाकवान् |
दाहज्वरकरः पित्तात् स ज्ञेयो जालगर्दभः ||१२||
(सु. नि. अ. १३) |
इरिवेल्लिका-कक्षालक्षणम्
पिडकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम् |
सर्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् ||१३||
बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां सवेदनाम् |
पित्तप्रकोपसम्भूतां कक्षामित्यभिनिर्दिशेत् ||१४||
(सु. नि. अ. १३) |
गन्धमालालक्षणम्
एकामेतादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम् |
त्वग्गतां पित्तकोपेन गन्धमालां प्रचक्षते ||१५||
(सु. नि. अ. १३) |
अग्निरोहिणीलक्षणम्
कक्षभागेषु ये स्फोटा जायन्ते मांसदारणाः |
अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ||१६||
सप्ताहाद्वा दशाहाद्वा पक्षाद्वा हन्ति मानवम् |
तामग्निरोहिणीं विद्यादसाध्यां सर्वदोषजाम् ||१७||
(सु. नि. अ. १३) |
चिप्प-कुनखलक्षणम्
नखमांसमधिष्ठाय वायुः पित्तः च देहिनाम् |
कुर्वते दाहपाकौ च तं व्याधिं चिप्पमादिशेत् ||१८||
तदेवाल्पतरैर्दोषैः परुषं कुनखं वदेत् ||१९||
(सु. नि. अ. १३) |
अनुशयीलक्षणम्
गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम् |
पादस्यानुशयीं तां तु विद्यादन्तःप्रपाकिनीम् ||२०||
(सु. नि. अ. १३) |
विदारिकालक्षणम्
विदारीकन्दवद्वृत्ता कक्षावङ्क्षणसन्धिषु |
विदारिका भवेद्रक्ता सर्वजा सर्वलक्षणा ||२१||
(सु. नि. अ. १३) |
शर्करार्बुदलक्षणम्
प्राप्य मांससिरास्नायूः श्लेष्मा मेदस्तथाऽनिलः |
ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिर्वसानिभम् ||२२||
स्रवत्यास्रावमनिलस्तत्र वृद्धिं गतः पुनः |
मांसं संशोष्य ग्रथितां शर्करां जनयेत्ततः ||२३||
दुर्गन्धि क्लिन्नमत्यर्थं नानावर्णं ततः सिराः |
स्रवन्ति रक्तं सहसा तं विद्याच्छर्करार्बुदम् ||२४||
(सु. नि. अ. १३) |
पाददारीलक्षणम्
परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः |
पादयोः कुरुते दारीं पाददारीं तमादिशेत् ||२५||
(सु. नि. अ. १३) |
कदरलक्षणम्
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः |
ग्रन्थिः कोलवदुत्सन्नो जायते कदरं हि तत् ||२६||
(सु. नि. अ. १३) |
अलसलक्षणम्
क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ |
दुष्टकर्दमसंस्पर्शादलसं तं विभावयेत् ||२७||
(सु. नि. अ. १३) |
इन्द्रलुप्तलक्षणम्
रोमकूपानुगं पित्तं वातेन सह मूर्छितम् |
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ||२८||
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः |
तदिन्द्रलुप्तं खालित्यं रुह्येति च विभाव्यते ||२९||
(सु. नि. अ. १३) |
दारुणकलक्षणम्
दारुणा कण्डुरा रूक्षा केशभूमिः प्रपाट्यते |
कफमारुतकोपेन विद्याद्दारुणकं तु तम् ||३०||
(सु. नि. अ. १३) |
अरूंषिकालक्षणम्
अरूंषि बहुवक्त्राणि बहुक्लेदीनि मूर्ध्नि तु |
कफासृक्क्रिमिकोपेन नृणां विद्यादरूंषिकाम् ||३१||
(सु. नि. अ. १३) |
पलितलक्षणम्
क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः |
पित्तं च केशान् पचति पलितं तेन जायते ||३२||
(सु. नि. अ. १३) |
युवानपिडकालक्षणम्
शाल्मलीकण्टकप्रख्याः कफमारुतरक्तजाः |
युवानपिडका यूनां विज्ञेया मुखदूषिकाः ||३३||
(सु. नि. अ. १३) |३४|
पद्मिनीकण्टकलक्षणम्
कण्टकैराचितं वृत्तं मण्डलं पाण्डुकण्डुरम् |
पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् ||३४||
(सु. नि. अ. १३) |
जतुमणिलक्षणम्
सममुत्सन्नमरुजं मण्डलं कफरक्तजम् |
सहजं लक्ष्म चैकेषां लक्ष्यो जतुमणिस्तु सः ||३५||
(सु. नि. अ. १३) |
मषकलक्षणम्
अवेदनं स्थिरं चैव यस्मिन् गात्रे प्रदृश्यते |
माषवत्कृष्णमुत्सन्नमनिलान्मषकं तु तत् ||३६||
(सु. नि. अ. १३) |
तिलकालकलक्षणम्
कृष्णानि तिलमात्राणि नीरुजानि समानि च |
वातपित्तकफोच्छोषात्तान् विद्यात्तिलकालकान् ||३७||
(सु. नि. अ. १३) |
न्यच्छलक्षणम्
महद्वा यदि वा चाल्पं श्यावं वा यदि वाऽसितम् |
नीरुजं मण्डलं गात्रे न्यच्छमित्यभिधीयते ||३८||
(सु. नि. अ. १३) |
व्यङ्गलक्षणम्
क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः |
मुखमागत्य सहसा मण्डलं विसृजत्यतः ||३९||
नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् |
(सु. नि. अ. १३) |
नीलिकालक्षणम्
कृष्णमेवङ्गुणं गात्रे मुखे वा नीलिकां विदुः ||४०||
परिवर्तिकालक्षणम्
मर्दनात् पीडनाद्वाऽति तथैवाप्यभिघाततः |
मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरन् ||४१||
तदा वातोपसृष्टत्वात्तच्चर्म परिवर्तते |
मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते ||४२||
सरुजां वातसम्भूतां तां विद्यात् परिवर्तिकाम् |
सकण्डूः कठिना वापि सैव श्लेष्मसमुत्थिता ||४३||
(सु. नि. अ. १३) |
अवपाटिकालक्षणम्
अल्पीयःखां यदा हर्षाद्बलाद्गच्छेत् स्त्रियं नरः |
हस्ताभिघातादपि वा चर्मण्युद्वर्तिते बलात् ||४४||
यस्यावपाट्यते चर्म तां विद्यादवपाटिकाम् |
(सु. नि. अ. १३) |
निरुद्धप्रकशलक्षणम्
वातोपसृष्टे मेढ्रे वै चर्म संश्रयते मणिम् ||४५||
मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च |
निरुद्धप्रकशे तस्मिन् मन्दधारमवेदनम् ||४६||
मूत्रं प्रवर्तते जन्तोर्मणिर्विव्रियते न च |
निरुद्धप्रकशं विद्यात् सरुजं वातसम्भवम् ||४७||
(सु. नि. अ. १३) |
सन्निरुद्धगुदलक्षणम्
वेगसन्धारणाद्वायुर्विहतो गुदसंश्रितः |
निरुणद्धि महास्रोतः सूक्ष्मद्वारं करोति च ||४८||
मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति |
सन्निरुद्धगुदं व्याधिमेतं विद्यात् सुदारुणम् ||४९||
(सु. नि. अ. १३) |
अहिपूतनलक्षणम्
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् |
स्विन्ने वाऽस्नाप्यमाने वा कण्डू रक्तकफोद्भवा ||५०||
कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते |
एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् ||५१||
(सु. नि. अ. १३) |
वृषणकच्छूलक्षणम्
स्नानोत्सादनहीनस्य मलो वृषणसंस्थितः |
यदा प्रक्लिद्यते स्वेदात् कण्डूं जनयते तदा ||५२||

प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ||५३||
(सु. नि. अ. १३) |
गुदभ्रंशलक्षणम्
प्रवाहणातीसाराभ्यां निर्गच्छति गुदं बहिः |
रूक्षदुर्बलदेहस्य गुदभ्रंशं तमादिशेत् ||५४||
(सु. नि. अ. १३) |
वराहदंष्ट्रलक्षणम्
सदाहो रक्तपर्यन्तस्त्वक्पाकी तीव्रवेदनः |
कण्डूमाञ्ज्वरकारी च स स्याच्छूकरदंष्ट्रकः ||५५||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने क्षुद्ररोगनिदानं समाप्तम् ||५५||