7. कृमिनिदानम्

क्रिमीणां सङ्ख्या
अथ क्रिमिनिदानम् |
क्रिमयश्च द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः |
बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः ||१||
नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः |
(वा. नि. अ. १४) |

बाह्यक्रिमिलक्षणम्
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ||२||
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः |
द्विधा ते कोठपिडकाकण्डूगण्डान् प्रकुर्वते ||३||
(वा. नि. अ. १४) |

क्रिमिनिदानम्
अजीर्णभोजी मधुराम्लनित्यो द्रवप्रियः पिष्टगुडोपभोक्ता |
व्यायामवर्जी च दिवाशयानो विरुद्धभुक् संलभते क्रिमींस्तु ||४||

क्रिमिविशेषे निदानविशेषः
माषपिष्टाम्ललवणगुडशाकैः पुरीषजाः |
मांसमत्स्यगुडक्षीरदधिशुक्तैः कफोद्भवाः ||५||
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि |
(सु. उ. तं. अ. ५४) |

आभ्यन्तरक्रिमिलक्षणम्
ज्वरो विवर्णता शूलं हृद्रोगः सदनं भ्रमः ||६||
भक्तद्वेषोऽतिसारश्च सञ्जातक्रिमिलक्षणम् |
(सु. उ. तं. अ. ५४) |

कफजक्रिमिलक्षणम्
कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः ||७||
पृथुब्रध्ननिभाः केचित् केचिद्गण्डूपदोपमाः |
रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाऽणवः ||८||
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते |
अन्त्रादा उदारावेष्टा हृदयादा महागुदाः ||९||
चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते |
हृल्लासमास्यस्रवणमविपाकमरोचकम् ||१०||
मूर्छाच्छर्दिज्वरा नाहकार्श्यक्षवथुपीनसान् |
(वा. नि. अ. १४) |

रक्तजक्रिमिलक्षणम्
रक्तवाहिसिरास्थानरक्तजा जन्तवोऽणवः ||११||
अपादा वृत्तताम्राश्च सौक्ष्म्यात् केचिददर्शनाः |
केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः |
षट् ते कुष्ठैककर्माणः सहसौरसमातरः ||१२||
(वा. नि. अ. १४) |

पुरीषजक्रिमिलक्षणम्
पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः |
प्रवृद्धाः स्युर्भवेयुश्च ते यदाऽऽमाशयोन्मुखाः ||१३||
तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः |
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ||१४||
ते पञ्च नाम्ना क्रिमयः ककेरुकमकेरुकाः |
सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि ||१५||
विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः |
रोमहर्षाग्निसदनं गुदकण्डूर्विमार्गगाः ||१६||
(वा. नि. अ. १४) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने क्रिमिनिदानं समाप्तम् ||७||