49. कुष्ठनिदानम्
कुष्ठनिदानम्
अथ कुष्ठनिदानम् |
विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च |
भजतामागतां छर्दिं वेगांश्चान्यान् प्रतिघ्नताम् ||१||
व्यायाममतिसन्तापमतिभुक्त्वा निषेविणाम् |
घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम् ||२||
अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम् |
नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम् ||३||
माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम् |
व्यवायं चाप्यजीर्णेऽन्ने निद्रां च भजतां दिवा ||४||
विप्रान् गुरून् धर्षयतां पापं कर्म च कुर्वताम् |
वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च ||५||
दूषयन्ति स कुष्ठानां सप्तको द्रव्यसङ्ग्रहः |
अतः कुष्ठानि जायन्ते सप्त चैकादशैव च ||६||
(च. चि. अ. ७) |
कुष्ठानां त्रिदोषजत्वेऽप्युल्बणदोषेण सप्तप्रकारता
कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः |
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकस्त्वतः ||७||
(वा. नि. अ. १४) |
कुष्ठपूर्वरूपम्
अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः |
दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिर्भ्रमः ||८||
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः |
रूढानामपि रूक्षत्वं निमित्तऽल्पेऽतिकोपनम् ||९||
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् |
(वा. नि. अ. १४) |
कापाल-औदुम्बर-मण्डल-ऋष्यजिह्व-पुण्डरीक-सिध्म-काकणकलक्षणम्
कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ||१०||
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् |
रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् ||११||
उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत् |
श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम् ||१२||
कृच्छ्रमन्योन्यसंयुक्तं कुष्ठं मण्डलमुच्यते |
कर्कशं रक्तपर्यन्तमन्तःश्यावं सवेदनम् ||१३||
यदृष्यजिह्वसंस्थानमृष्यजिह्वं तदुच्यते |
सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम् ||१४||
सोत्सेधं च सरागं च पुण्डरीकं तदुच्यते |
श्वेतं ताम्रं तनु च यद्रजो घृष्टं विमुञ्चति ||१५||
प्रायश्चोरसि तत् सिध्ममलाबुकुसुमोपमम् |
यत् काकणन्तिकावर्णं सपाकं तीव्रवेदनम् ||१६||
त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिध्यति |
(च. चि. अ. ७) |
एककुष्ठ-चर्माख्य-किटिभ-वैपादिक-अलसक-दद्रु-चर्मदल-पामा-कच्छु-विस्फोट-शतारु-विचर्चिकालक्षणम्
अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम् ||१७||
तदेककुष्ठं, चर्माख्यं बहलं हस्तिचर्मवत् |
श्यावं किणखरस्पर्शं परुषं किटिभं स्मृतम् ||१८||
वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम् |
कण्डूमद्भिः सरागैश्चः गण्डैरलसकं चितम् ||१९||
सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम् |
रक्तं सशूलं कण्डूमत् सस्फोटं यद्गलत्यपि |
तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते ||२०||
(च. चि. अ. ७) |
सूक्ष्मा बह्व्यः पिडकाः स्राववत्यः पामेत्युक्ताः कण्डुमत्यः सदाहाः |
सैव स्फोटैस्तीव्रदाहैरुपेता ज्ञेया पाण्योः कच्छुरुग्रा स्फिचोश्च ||२१||
स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः |
रक्तं श्यावं सदाहार्ति शतारुः स्याद्बहुव्रणम् ||२२||
सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका |
(च. चि. अ. ७) |
दोषत्रयनियतं कुष्ठलिङ्गम्
खरं श्यावारुणं रूक्षं वातात् कुष्ठं सवेदनम् ||२३||
पित्तात् प्रक्वथितं दाहरागस्रावान्वितं मतम् |
कफात् क्लेदि घनं स्निग्धं सकण्डूशैत्यगौरवम् ||२४||
द्विलिङ्गं द्वन्द्वजं कुष्ठं, त्रिलिङ्गं सान्निपातिकम् |२५|
त्वगादिसप्तधातुगतकुष्ठस्य लक्षणानि
त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यं च जायते ||२५||
त्वक्स्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्तनम् |
कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते ||२६||
बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः |
तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते ||२७||
कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम् |
मेदःस्थानगते लिङ्गं प्रागुक्तानि तथैव च ||२८||
नासाभङ्गोऽक्षिरागश्च क्षतेषु क्रिमिसम्भवः |
स्वरोपघातश्च भवेदस्थिमज्जसमाश्रिते ||२९||
दम्पत्योः कुष्ठबाहुल्याद्दुष्टशोणितशुक्रयोः |
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ||३०||
(सु. नि. अ. ५) |
कुष्ठस्य साध्यासाध्यविचारः
साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकं च यत् |
मेदसि द्वन्द्वजं याप्यं वर्ज्यं मज्जास्थिसंश्रितम् ||३१||
क्रिमितृड्दाहमन्दाग्निसंयुक्तं यत्त्रिदोषजम् |
प्रभिन्नं प्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम् ||३२||
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह मानवम् |
(सु. सू. अ. ३३) |
कुष्ठेषु प्रधानदोषव्यपदेशः
वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात् ||३३||
मण्डलाख्यं विचर्ची च ऋष्याख्यं वातपित्तजम् |
चर्मैककुष्ठं किटिभं सिध्मालसविपादिकाः ||३४||
वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रुशतारुषी |
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा ||३५||
सर्वैः स्यात् काकणं पूर्वत्रिकं दद्रु सकाकणम् |
पुण्डरीकर्ष्यजिह्वे च महाकुष्ठानि सप्त तु ||३६||
(वा. नि. अ. १४) |
किलासलक्षणम्
कुष्ठैकसम्भवं श्वित्रं किलासं वारुणं भवेत् |
निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ||३७||
वाताद्रूक्षारुणं, पित्तात्ताम्रं कमलपत्रवत् |
सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु ||३८||
सकण्डूरं क्रमाद्रक्तमांसमेदःसु चादिशेत् |
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ||३९||
(वा. नि. अ. १४) |
किलासस्य साध्यासाध्य विचारः
अशुक्लरोमाऽबहुलमसंश्लिष्टमथो नवम् |
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ||४०||
गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम् |
वर्जनीयं विशेषेण किलासं सिद्धिमिच्छता ||४१||
(अ. सं. नि. अ. १४) |
कुष्ठादीनां संसर्गजत्वम्
प्रसङ्गाद्गात्रसंस्पर्शान्निःश्वासात् सहभोजनत् |
एकशय्यासनाच्चैव वस्त्रमाल्यानुपलेनात् ||४२||
कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च |
औपसर्गिकरोगाश्च सङ्क्रामन्ति नरान्नरम् ||४३||
(सु. नि. अ. ५) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने कुष्ठनिदानं समाप्तम् ||४९||