57. कर्णरोगनिदानम्

कर्णशूलस्य सम्प्राप्तिपूर्वकं लक्षणम्
अथ कर्णरोगनिदानम् |
समीरणः श्रोत्रगतोऽन्यथाचरन् समन्ततः शूलमतीव कर्णयोः |
करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ||१||
(सु. उ. तं. अ. २०) |

कर्णनाद-बाधिर्यलक्षणम्
कर्णस्रोतः स्थिते वाते शृणोति विविधान् स्वरान् |
भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते ||२||
यदा शब्दवहं वायुः स्रोत आवृत्य तिष्ठति |
शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्यं तेन जायते ||३||

कर्णक्ष्वेडलक्षणम्
वायुः पित्तादिभिर्युक्तो वेणुघोषोपमं स्वनम् |
करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते ||४||

कर्णस्रावलक्षणम्
शिरोऽभिघातादथवा निमज्जतो जले प्रपाकादथवाऽपि विद्रधेः |
स्रवेद्धि पूयं श्रवणोऽनिलार्दितः स कर्णसंस्राव इति प्रकीर्तितः ||५||
(सु. उ. तं. अ. २०) |

कर्णगूथक-कर्णप्रतिनाहलक्षणम्
मारुतः कफसंयुक्तः कर्णकण्डूं करोति च |
पित्तोष्मशोषितः श्लेष्मा कुरुते कर्णगूथकम् ||६||
स कर्णगूथो द्रवतां गतो यदा विलायितो घ्राणमुखं प्रपद्यते |
तदा स कर्णप्रतिनाहसञ्ज्ञितो भवेद्विकारः शिरसोऽर्धभेदकृत् ||७||
(सु. उ. तं. अ. २०) |

क्रिमिकर्णकलक्षणम्
यदा तु मूर्छन्त्यथवाऽपि जन्तवः सृजन्त्यपत्यान्यथवाऽपि मक्षिकाः |
तद्व्यञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः क्रिमिकर्णको गदः ||८||
(सु. उ. तं. अ. २०) |

कर्णप्रविष्टपतङ्गकीटादिलक्षणम्
पतङ्गाः शतपद्यश्च कर्णस्रोतः प्रविश्य हि |
अरतिं व्याकुलत्वं च भृशं कुर्वन्ति वेदनाम् ||९||
कर्णो निस्तुद्यते तस्य तथा फरफरायते |
कीटे चरति रुक् तीव्रा निष्पन्दे मन्दवेदना ||१०||

कर्णविद्रधिलक्षणम्
क्षताभिघातप्रभवस्तु विद्रधिर्भवेत्तथा दोषकृतोऽपरः पुनः |
सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोषवान् ||११||
(सु. उ. तं. अ. २०) |

कर्णपाकलक्षणम्
कर्णपाकस्तु पित्तेन कोथविक्लेदकृद्भवेत् |
कर्णविद्रधिपाकाद्वा जायते चाम्बुपूरणात् ||१२||

पूतिकर्णलक्षणम्
पूयं स्रवति पूति वा स ज्ञेयः पूतिकर्णकः |१३|

कर्णगतशोथार्बुदार्शसां लक्षणम्
कर्णशोथार्बुदार्शांसि जानीयादुक्तलक्षणैः ||१३||

कर्णरोगस्य वातजादिभेदेन लक्षणानि
नादोऽतिरुक् कर्णमलस्य शोषः स्रावस्तनुश्चाश्रवणं च वातात् |
शोथः सरागो दरणं विदाहः सपीतपूतिस्रवणं च पित्तात् ||१४||
वैश्रुत्यकण्डूस्थिरशोथशुक्लस्निग्धस्रुतिः स्वल्परुजः कफाच्च |
सर्वाणि रूपाणि च सन्निपातात् स्रावश्च तत्राधिकदोषवर्णः ||१५||
(च. चि. अ. २६) |

परिपोटकलक्षणम्
सौकुमार्याच्चिरोत्सृष्टे सहसाऽतिप्रवर्धिते |
कर्णशोथो भवेत् पाल्यां सरुजः परिपोटवान् |
कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः ||१६||
(सु. चि. अ. २५) |

उत्पातलक्षणम्
गुर्वाभरणसंयोगात्ताडनाद्घर्षणादपि |
शोथः पाल्यां भवेच्छ्यावो दाहपाकरुजान्वितः ||१७||
रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः |
(सु. चि. अ. २५) |

उन्मन्थकलक्षणम्
कर्णं बलाद्वर्धयतः पाल्यां वायुः प्रकुप्यति ||१८||
कफं सङ्गृह्य कुरुते शोथं स्तब्धमवेदनम् |
उन्मन्थकः सकण्डूको विकारः कफवातजः ||१९||
संवर्ध्यमाने दुर्विद्धे कण्डूपाकरुजान्वितः |
शोथो भवति पाकश्च त्रिदोषो दुःखवर्धनः ||२०||
(सु. चि. अ. २५) |

परिलेहीलक्षणम्
कफासृक्क्रिमयः क्रुद्धाः सर्षपाभा विसर्पिणः |
कुर्वन्ति पाल्यां पिडकाः कण्डूदाहरुजान्विताः ||२१||
कफासृक्क्रिमिसम्भूतः स विसर्पन्नितस्ततः |
लिहेत् सशष्कुलीं पालीं परिलेहीति स स्मृतः ||२२||
(सु. चि. अ. २५) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने कर्णरोगनिदानं समाप्तम् ||५७||