2. ज्वरनिदानम्

ज्वरोत्पत्तिः तस्य भेदाश्च
अथ ज्वरनिदानम् |
दक्षापमानसङ्क्रुद्धरुद्रनिःश्वाससम्भवः |
ज्वरोऽष्टधा पृथग्द्वन्द्वसङ्घातागन्तुजः स्मृतः ||१||

ज्वरसम्प्राप्तिः
मिथ्याहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः |
बहिर्निरस्य कोष्ठाग्निं ज्वरदाः स्यू रसानुगाः ||२||

ज्वरसामान्यलक्षणम्
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा |
युगपद्यत्र रोगे च स ज्वरो व्यपदिश्यते ||३||

ज्वरपूर्वरूपम्
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः |
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ||४||
जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः |
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ||५||
(सामान्यतो विशेषात्तु जृम्भाऽत्यर्थं समीरणात् |
पित्तान्नयनयोर्दाहः कफादन्नारुचिर्भवेत् ||६||
रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्द्वजं विदुः |
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे) ||७||
(सु. उ. तं. अ. ३९) |

वातज्वरलक्षणम्
वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम् |
निद्रानाशः क्षवस्तम्भो गात्राणां रौक्ष्यमेव च ||८||
शिरोहृद्गात्ररुग्वक्त्रवैरस्यं गाढविट्कता |
शूलाध्माने जृम्भणं च भवन्त्यनिलजे ज्वरे ||९||
(सु. उ. तं. अ. ३९) |

पित्तज्वरलक्षणम्
वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः |
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ||१०||
प्रलापो वक्त्रकटुता मूर्छा दाहो मदस्तृषा |
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ||११||
(सु. उ. तं. अ. ३९) |

कफज्वरलक्षणम्
स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता |
शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि च ||१२||
(नात्युष्णगात्रता छर्दिरङ्गसादोऽविपाकिता) |
गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्रता |
(स्रोतोरोधो रुगल्पत्वं प्रसेको लवणास्यता |
नात्युष्णगात्रता, च्छर्दिर्लालास्रावोऽविपाकता) |
प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ||१३||
(सु. उ. तं. अ. ३९) |

वातपित्तज्वरलक्षणम्
तृष्णा मूर्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा |
कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः ||१४||
पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः |१५|
(सु. उ. तं. अ. ३९) |

वातश्लेष्मज्वरलक्षणम्
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च ||१५||
शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम् |
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ||१६||
(सु. उ. तं. अ. ३९) |

श्लेष्मपित्तज्वरलक्षणम्
लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा |
मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः ||१७||
(सु. उ. तं. अ. ३९) |

सान्निपातिकज्वरलक्षणम्
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा |
सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने ||१८||
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः |
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः ||१९||
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम् |
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च ||२०||
शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा |
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः ||२१||
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम् |
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् ||२२||
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च |
चिरात्पाकश्च दोषाणां सन्निपातज्वराकृतिः ||२३||
(च. चि. अ. ३) |

सन्निपातज्वरस्यासाध्यत्वकृच्छ्रसाध्यत्व लक्षणम्
दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः |
सन्निपातज्वरोऽसाध्यः, कृच्छ्रसाध्यस्ततोऽन्यथा ||२४||
(च. चि. अ. ३) |
(सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा |
पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा |१|
सप्तमी द्विगुणा चैव नवम्येकादशी तथा |
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च) |२|

सन्निपातज्वरोपद्रवः
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः |
शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते ||२५||
(च. चि. अ. ३) |
(त्रयः प्रकुपिता दोषा उरःस्रोतोऽनुगामिनः |
आमाभिवृद्ध्या ग्रथिता बुद्धीन्द्रियमनोगताः ||१||
जनयन्ति महाघोरमभिन्यासं ज्वरं दृढम् |
श्रुतौ नेत्रे प्रसुप्तिः स्यान्न चेष्टां काञ्चिदीहते ||२||
नच दृष्टिर्भवेत्तस्य समर्था रूपदर्शने |
न घ्राणं न संस्पर्शं शब्दं वा नैव बुध्यते ||३||
शिरो लोठयतेऽभीक्ष्णमाहारं नाभिनन्दति |
कूजति तुद्यते चैव परिवर्तनमीहते ||४||
अल्पं प्रभाषते किञ्चिदभिन्यासः स उच्यते |
प्रत्याख्यातः स भूयिष्ठः कश्चिदेवात्र सिध्यति) ||५||

आगन्तुज्वरलक्षणम्
अभिघाताभिचाराभ्यामभिशापाभिषङ्गतः |
आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत् ||२६||
श्यावास्यता विषकृते तथाऽतीसार एव च |
भक्तारुचिः पिपासा च तोदश्च सह मूर्छया ||२७||
ओषधिगन्धजे मूर्छा शिरोरुग्वमथुः क्षवः |
कामजे चित्तविभ्रंशस्तन्द्राऽऽलस्यमभोजनम् ||२८||
(हृदये वेदना चास्य गात्रं च परिशुष्यति) |
भयात्प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः |
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ||२९||
भूताभिषङ्गादुद्वेगो हास्यरोदनकम्पनम् |३०|
(सु. उ. तं. अ. ३९) |

आगन्तुजेषु दोषानुबन्धप्रदर्शनम्

कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः ||३०||
भूताभिषङ्गात्कुप्यन्ति भूतसामान्यलक्षणाः |३१|

विषमज्वरसम्प्राप्तिः
दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः ||३१||
धातुमन्यतमं प्राप्य करोति विषमज्वरम् |३२|
(सु. उ. तं. अ. ३९) |
(सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ) ||२||

सन्ततादीनां प्रतिनियतदूष्या धातवः
सन्ततं रसरक्तस्थः, सोऽन्येद्युः पिशिताश्रितः ||३२||
मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः |
कुर्याच्चतुर्थकं घोरमन्तकं रोगसङ्करम् ||३३||
(सु. उ. तं. अ. ३१) |

सन्ततसततान्येद्युष्कतृतीयकचतुर्थकज्वर लक्षणम्
(स्रोतोभिर्विसृता दोषा गुरवो रसवाहिभिः |
सर्वदेहानुगाः स्तब्धा ज्वरं कुर्वन्ति सन्ततम्) |
सप्ताहं वा दशाहं वा द्वादशाहमथापि वा |
सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते ||३४||
अहोरात्रे सततको द्वौ कालावनुवर्तते |
अन्येद्युष्कस्त्वहोरात्र एककालं प्रवर्तते ||३५||
तृतीयकस्तृतीयेऽह्नि, चतुर्थेऽह्नि चतुर्थकः |३६|
(सु. उ. तं. अ. ३१) |

विषमज्वरस्यैकीयमतेन भूताभिषङ्गजत्वम्
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ||३६||
(सु. उ. तं. अ. ३९) |

उल्बणदोषभेदेन तृतीयक चतुर्थकयोर्लक्षणान्तरम्
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः |
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ||३७||
चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः |
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः ||३८||
(च. चि. अ. ३) |

चतुर्थकविपर्ययलक्षणम्
विषमज्वर एवान्यश्चतुर्थकविपर्ययः |
त्र्यहाद् द्वयहं ज्वरयति ह्यादावन्ते च मुञ्चति ||३९||
(च. चि. अ. ३) |

वातबलासकज्वरलक्षणम्
नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति |
स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेद्वातबलासकी ||४०||
(अ. सं. नि. अ. २) |

प्रलेपकज्वरलक्षणम्
प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण च |
मन्दज्वरविलेपी च सशीतः स्यात्प्रलेपकः ||४१||
(अ. सं. नि. अ. २) |

विषमज्वरविशेषाः
विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते |
तेनार्धं शीतलं देहमर्धमुष्णं प्रजायते ||४२||
काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितः |
तेनोष्णत्वं शरीरस्य शीतत्वं हस्तपादयोः ||४३||
काये श्लेष्मा यदा दुष्टः पित्तं चान्ते व्यवस्थितम् |
शीतत्वं तेन गात्राणामुष्णत्वं हस्तपादयोः ||४४||
(अ. सं. नि. अ. २) |
त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे |
तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ||४५||
करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च |
तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ||४६||
द्वावेतौ दाहशीतादिज्वरौ संसर्गजौ स्मृतौ |
दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमश्च सः ||४७||
(सु. उ. तं. अ. ३९) |

रसरक्तमांसमेदोमज्जशुक्रगतज्वरलक्षणम्
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ |
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ||४८||
रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमौ |
प्रलापः पिडका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ||४९||
पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता |
ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ||५०||
भृशं स्वेदस्तृषा मूर्छा प्रलापश्छर्दिरेव च |
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ||५१||
भेदोऽस्थ्नां कूजनं श्वासो विरेकश्छर्दिरेव च |
विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ||५२||
तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा |
अन्तर्न्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे ||५३||
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे |
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ||५४||
(सु. उ. तं. अ. ३९) |
(रसरक्ताश्रितः साध्यो मांसमेदोगतश्च यः |
अस्थिमज्जगतः कृच्छ्रो शुक्रस्थस्तु न सिध्यति) ||१||
(च. चि. अ. ३) |

उक्तवातादिज्वराणां कालप्रकृतिमुद्दिश्य प्राकृतत्वं वैकृतत्वं च
वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् |
वैकृतोऽन्यः स दुःसाध्यः प्राकृतश्चानिलोद्भवः ||५५||
(वा. नि. अ. २) |

प्राकृतज्वराणामुत्पत्तिक्रमः
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् |
कुर्यात् पित्तं च शरदि तस्य चानुबलः कफः ||५६||
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् |
कफो वसन्ते तमपि वातपित्तं भवेदनु ||५७||
(वा. नि. अ. २) |

कालस्य दोषविशेषे लक्षणत्वम्
काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा |५८|
(वा. नि. अ. २) |

ज्वराणामुपशयानुपशयौ

निदानोक्तानुपशयो विपरीतोपशायिता ||५८||
(वा. नि. अ. २) |

अन्तर्वेग-बहिर्वेगज्वरलक्षणम्

अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः |
सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः ||५९||
अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत् |
सन्तापो ह्यधिको बाह्यस्तृष्णादीनां च मार्दवम् ||६०||
बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च |६१|
(च. चि. अ. ३) |

आमज्वर-पच्यमान-निरामज्वरलक्षणम्

लालाप्रसेको हृल्लासहृदयाशुद्ध्यरोचकाः ||६१||
तन्द्रालस्याविपाकास्यवैरस्यं गुरुगात्रता |
क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवान् ज्वरः ||६२||
आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम् |
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ||६३||
(शोधनं शमनीयं च करोति विषमज्वरम्) |
ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः |
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ||६४||
क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम् |
दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम् ||६५||
(च. चि. अ. ३) |

ज्वरस्य साध्यलक्षणम्

बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः |६६|
(च. चि. अ. ३) |

ज्वरस्यासाध्यलक्षणानि
हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः ||६६||
ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः |
ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः ||६७||
असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः |
(च. चि. अ. ३) |
गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ||६८||
आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च |
(सु. उ. तं. अ. ३९) |
आरम्भाद्विषमो यस्तु यश्च वा दैर्घरात्रिकः ||६९||
क्षीणस्य चातिरूक्षस्य गम्भीरो यस्य हन्ति तम् |
विसञ्ज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा ||७०||
शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः |
यो हृष्टरोमा रक्ताक्षो हृदि सङ्घातशूलवान् ||७१||
वक्त्रेण चैवोच्छ्वसिति तं ज्वरो हन्ति मानवम् |
हिक्काश्वासतृषायुक्तं मूढं विभ्रान्तलोचनम् ||७२||
सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः |
हतप्रभेन्द्रियं क्षीणमरोचकनिपीडितम् ||७३||
गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत् |
(सु. उ. तं. अ. ३९) |

ज्वरविमुक्तिपूर्वरूपम्
दाहः स्वेदो भ्रमस्तृष्णा कम्पविड्भिदसञ्ज्ञता |
कूजनं चास्यवैगन्ध्यमाकृतिर्ज्वरमोक्षणे ||७४||

ज्वरमुक्तलक्षणम्
स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च |
क्षवथुश्चान्नलिप्सा च ज्वरमुक्तस्य लक्षणम् ||७५||
(सु. उ. तं. अ. ३९) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने ज्वरनिदानं समाप्तम् ||२||