12. हिक्काश्वासनिदानम्
हिक्कानिदानम्
अथ हिक्का-श्वासनिदानम् |
विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः |
शीतपानाशनस्थानरजोधूमातपानिलैः ||१||
व्यायामकर्मभाराध्ववेगाघातापतर्पणैः |
हिक्का श्वासश्च कासश्च नृणां समुपजायते ||२||
(सु. उ. तं. अ. ५०) |
हिक्कानां स्वरूपं निरुक्तिश्च
मुहुर्मुहुर्वायुरुदेति सस्वनो यकृत्प्लीहान्त्राणि मुखादिवाक्षिपन् |
स घोषवानाशु हिनस्त्यसून् यतस्ततस्तु हिक्केत्यभिधीयते बुधैः ||३||
(सु. उ. तं. अ. ५०) |
हिक्कासम्प्राप्तिः भेदाश्च
अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा |
वायुः कफेनानुगतः पञ्च हिक्काः करोति हि ||४||
(सु. उ. तं. अ. ५०) |
हिक्कापूर्वरूपम्
कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता |
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च ||५||
(च. चि. अ. २१) |
अन्नजाहिक्कालक्षणम्
पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनिलः |
हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् ||६||
(सु. उ. तं. अ. ५०) |
यमलाहिक्कालक्षणम्
चिरेण यमलैर्वेगैर्या हिक्का सम्प्रवर्तते |
कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत् ||७||
(सु. उ. तं. अ. ५०) |
क्षुद्राहिक्कालक्षणम्
प्रकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते |
क्षुद्रिका नाम सा हिक्का जत्रुमूलात् प्रधाविता ||८||
(सु. उ. तं. अ. ५०) |
गम्भीराहिक्कालक्षणम्
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी |
अनेकोपद्रववती गम्भीरा नाम सा स्मृता ||९||
(सु. उ. तं. अ. ५०) |
महतीहिक्कालक्षणम्
मर्माण्युत्पीडयन्तीव सततं या प्रवर्तते |
महाहिक्केति सा ज्ञेया सर्वगात्रविकम्पिनी ||१०||
(सु. उ. तं. अ. ५०) |
हिक्काया असाध्यलक्षणम्
आयम्यते हिक्कतो यस्य देहो दृष्टिश्चोर्ध्वं नाम्यते यस्य नित्यम् |
क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रं तौ द्वौ चान्त्यौ वर्जयेद्धिक्कमानौ ||११||
अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य च |
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः ||१२||
आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम् |
यमिका च प्रलापार्तिमोहतृष्णासमन्विता ||१३||
अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः |
तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा ||१४||
(च. चि. अ. २१) |
श्वासभेदाः
महोर्ध्वच्छिन्नतमकक्षुद्रभेदैस्तु पञ्चधा |
भिद्यते स महाव्याधिः श्वास एको विशेषतः ||१५||
(सु. उ. तं. अ. ५१) |
(वाताधिको भवेत् क्षुद्रस्तमकस्तु कफोद्भवः |
कफवाताधिकश्चैव संसृष्टश्छिन्नसञ्ज्ञकः |
श्वासो मारुतसंसृष्टो महानूर्ध्वस्तथा(तो) मतः) |
(सु. उ. तं. अ. ५१) |
श्वासपूर्वरूपं, श्वाससम्प्राप्तिश्च
प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च |
आनाहो वक्त्रवैरस्यं शङ्खनिस्तोद एव च ||१६||
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः |
विष्वग्व्रजति संरुद्धस्तदा श्वासान् करोति सः ||१७||
(सु. उ. तं. अ. ५१) |
महाश्वासलक्षणम्
उद्धूयमानवतो यः शब्दवद्दुःखितो नरः |
उच्चैः श्वसिति संरुद्वो मत्तर्षभ इवानिशम् ||१८||
प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः |
विवृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक् ||१९||
दीनः प्रश्वसितं चास्य दूराद्विज्ञायते भृशम् |
महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते ||२०||
(च. चि. अ. २१) |
ऊर्ध्वश्वासलक्षणम्
ऊर्ध्वं श्वसिति यो दीर्घं न च प्रत्याहरत्यधः |
श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः ||२१||
ऊर्ध्वदृष्टिर्विपश्यंस्तु विभ्रान्ताक्ष इतस्ततः |
प्रमुह्यन् वेदनार्तश्च शुक्लास्योऽरतिपीडितः ||२२||
ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुध्यते |
मुह्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून् ||२३||
(च. चि. अ. २१) |
छिन्नश्वासलक्षणम्
यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः |
न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः ||२४||
आनाहस्वेदमूर्छार्तो दह्यमानेन बस्तिना |
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः ||२५||
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः |
छिन्नश्वासेन विच्छिन्नः स शीघ्रं विजहात्यसून् ||२६||
(च. चि. अ. २९) |
तमकश्वासलक्षणम्
प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते |
ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च ||२७||
करोति पीनसं तेन रुद्धो घुर्घुरकं तथा |
अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम् ||२८||
प्रताम्यति स वेगेन तृष्यते सन्निरुध्यते |
प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः ||२९||
श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः |
तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम् ||३०||
तथाऽस्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम् |
न चापि लभते निद्रां शयानः श्वासपीडितः ||३१||
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः |
आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति ||३२||
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान् |
विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते ||३३||
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते |
स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः ||३४||
(च. चि. अ. २१) |
प्रतमकश्वासलक्षणं, तस्यैवापरकारणं लक्षणं च
ज्वरमूर्छापरीतस्य विद्यात् प्रतमकं तु तम् |
उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः ||३५||
तमसा वर्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति |
मज्जतस्तमसीवास्य विद्यात् सन्तमकं तु तम् ||३६||
(च. चि. अ. २१) |
क्षुद्रश्वासलक्षणं, श्वासानां साध्यासाध्यविचारश्च
रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन् |
क्षुद्रश्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः ||३७||
हिनस्ति न स गात्राणि न च दुःखो यथेतरे |
न च भोजनपानानां निरुणद्ध्युचितां गतिम् ||३८||
नेन्द्रियाणां व्यथां नापि काञ्चिदापादयेद्रुजम् |
स साध्य उक्तो, बलिनः सर्वे चाव्यक्तलक्षणाः ||३९||
(च. चि. अ. २१) |
क्षुद्रः साध्यो मतस्तेषां तमकः कृच्छ्र उच्यते |
त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च ||४०||
(सु. उ. तं. अ. ५१) |
उपेक्षणासम्यगुपक्रमाभ्यां हिक्काश्वासयोः शीघ्रावश्यमारकत्वम्
कामं प्राणहरा रोगा बहवो न तु ते तथा |
यथा श्वासश्च हिक्का च हरतः प्राणमाशु च ||४१||
(च. चि. अ. २१) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने हिक्काश्वासनिदानं समाप्तम् ||१२||