28. गुल्मनिदानम्
गुल्मस्य निदानभेदस्थानानि
अथ गुल्मनिदानम् |
दुष्टा वातादयोऽत्यर्थं मिथ्याहारविहारतः |
कुर्वन्ति पञ्चधा गुल्मं कोष्ठान्तर्ग्रन्थिरूपिणम् |
तस्य पञ्चविधं स्थानं पार्श्वहृन्नाभिबस्तयः ||१||
सामान्यगुल्मरूपम्
हृन्नाभ्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः |
वृत्तश्चयापचयवान् स ‘गुल्म’ इति कीर्तितः ||२||
(सु. उ. तं. अ. ४२) |
पञ्चविधगुल्मविवरणम्
स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः |
पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः ||३||
(सु. उ. तं. अ. ४२) |
गुल्मपूर्वरूपम्
उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि |
आटोप आध्मानमपक्तिशक्तिरासन्नगुल्मस्य वदन्ति चिह्नम् ||४||
(वा. नि. अ. ११) |
सर्वगुल्मसाधारणं रूपम्
अरुचिः कृच्छ्रविण्मूत्रवातताऽन्त्रविकूजनम् |
आनाहश्चोर्ध्ववातत्वं सर्वगुल्मेषु लक्षयेत् ||५||
वातिकगुल्मस्य निदानपूर्वकं लक्षणम्
रूक्षान्नपानं विषमातिमात्रं विचेष्टनं वेगविनिग्रहश्च |
शोकोऽभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः ||६||
यः स्थानसंस्थानरुजां विकल्पं विड्वातसङ्गं गलवक्त्रशोषम् |
श्यावारुणत्वं शिशिरज्वरं च हृत्कुक्षिपार्श्वांसशिरोरुजं च ||७||
करोति जीर्णे त्वधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च |
वातात् स गुल्मो नच तत्र रूक्षं कषायतिक्तं कटु चोपशेते ||८||
(च. चि. अ. ५) |
पैत्तिकगुल्मस्य निदानपूर्वकं लक्षणम्
कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा |
आमाभिघातो रुधिरं च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम् ||९||
ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजन च |
स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम् ||१०||
(च. चि. अ. ५) |
श्लैष्मिकगुल्मस्य निदानपूर्वकं लक्षणम्
शीतं गुरु स्निग्धमचेष्टनं च सम्पूरणं प्रस्वपनं दिवा च |
गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दुष्टो निचयात्मकस्य ||११||
स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि |
शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य ||१२||
(च. चि. अ. ५) |
द्व्यात्मकेषु त्रिष्वेकजहेतुलक्षणातिदेशः
निमित्तरूपाण्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलं च |
व्यामिश्रलिङ्गानपरांश्च गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम् ||१३||
(च. चि. अ. ५) |
सान्निपातिकगुल्मलक्षणम्
महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम् |
मनःशरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत् ||१४||
(च. चि. अ. ५) |
रक्तगुल्मस्य निदानपूर्वकं लक्षणम्
नवप्रसूताऽहितभोजन या या चामगर्भं विसृजेदृतौ वा |
वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम् |
पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध ||१५||
(सु. उ. तं. अ. ४२) |
यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात् सशूलः समगर्भलिङ्गः |
स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः ||१६||
(च. चि. अ. ५) |
गुल्मिनोऽसाध्यलक्षणानि
सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः |
कृतमूलः सिरानद्धो यदा कूर्म इवोत्थितः ||१७||
दौर्बल्यारुचिहृल्लासकासच्छर्द्यरतिज्वरैः |
तृष्णातन्द्राप्रतिश्यायैर्युज्यते स न सिध्यति ||१८||
गृहीत्वा सज्वरं श्वासच्छर्द्यतीसारपीडितम् |
हृन्नाभिहस्तपादेषु शोथः कर्षति गुल्मिनम् ||१९||
(च. चि. अ. ५) |
श्वासः शूलं पिपासाऽन्नविद्वेषो ग्रन्थिमूढता |
जायते दुर्बलत्वं च गुल्मिनो मरणाय वै ||२०||
(सु. सू. अ. ३३) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने गुल्मनिदानं समाप्तम् ||२८||