4. ग्रहणीरोगनिदानं
ग्रहणीसम्प्राप्तिः
अथ ग्रहणीरोगनिदानम् |
अतीसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः |
भूयः सन्दूषितो वह्निर्ग्रहणीमभिदूषयेत् ||१||
(सु. उ. तं. अ. ४०) |
ग्रहणीसामान्यलक्षणम्
एकैकशः सर्वशश्च दोषैरत्यर्थमूर्छितैः |
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ||२||
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम् |
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः ||३||
(सु. उ. तं. अ. ४०) |
ग्रहणीपूर्वरूपम्
पूर्वरूपं तु तस्येदं तृष्णाऽऽलस्यं बलक्षयः |
विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ||४||
(च. चि. अ. १५) |
वातिकग्रहण्या निदानादिपूर्वकं लक्षणम्
कटुतिक्तकषायातिरूक्षसन्दुष्टभोजनः |
प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः ||५||
मारुतः कुपितो वह्निं सञ्छाद्य कुरुते गदान् |
तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ||६||
कण्ठास्यशोषोऽक्षुत्तृष्णा तिमिरं कर्णयोः स्वनः |
पार्श्वोरुवङ्क्षणग्रीवारुगभीक्ष्णं विसूचिका ||७||
हृत्पीडाकार्श्यदौर्बल्यं वैरस्यं परिकर्तिका |
गृद्धिः सर्वरसानां च मनसः सदनं तथा ||८||
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च |
स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः ||९||
चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत् |
पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात् ||१०||
(च. चि. अ. १५) |
पैत्तिकग्रहण्या निदानादिपूर्वकं लक्षणम्
कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम् |
आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् ||११||
सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्रवम् |
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः ||१२||
(च. चि. अ. १५) |
श्लैष्मिकग्रहण्या निदानादिपूर्वकं लक्षणम्
गुर्वतिस्निग्धशीतादिभोजनदतिभोजनत् |
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः ||१३||
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः |
आस्योपदेहमाधुर्यं कासष्ठीवनपीनसाः ||१४||
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरुः |
दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम् ||१५||
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम् |
अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके ||१६||
(च. चि. अ. १५) |
त्रिदोषज-सङ्ग्रह-घटीयन्त्राख्यग्रहणी लक्षणम्
पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे |
त्रिदोषं निर्दिशेदेवं, तेषां वक्ष्यामि भेषजम् ||१७||
(च. चि. अ. १५) |
(अन्त्रकूजनमालस्यं दौर्बल्यं सदनं तथा |
द्रवं शीतं घनं स्निग्धं सकटीवेदनं शकृत् |१|
आमं बहु सपैच्छिल्यं सशब्दं मन्दवेदनम् |
पक्षान्मासाद्दशाहाद्वा नित्यं वाऽप्यथ मुञ्चति ||२||
दिवा प्रकोपो भवति रात्रौ शान्तिं व्रजेच्च सा |
दुर्विज्ञेया दुश्चिकित्स्या चिरकालानुबन्धिनी ||३||
सा भवेदामवातेन सङ्ग्रहग्रहणी मता |
स्वपतः पार्श्वयोः शूलं गलज्जलघटीध्वनिः |
तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम्) ||४||
ग्रहण्याः साम-निराम-असाध्यलक्षणं, वयोऽनुरूपं साध्यासाध्यत्वं च
दोषं सामं निरामं च विद्यादत्रातिसारवत् ||१८||
लिङ्गैरसाध्यो ग्रहणीविकारो यैस्तैरतीसारगदो न सिध्येत् |
वृद्धस्य नूनं ग्रहणीविकारो हत्वा तनूं नैव निवर्तते च ||१९||
(बालके ग्रहणी साध्या यूनि कृच्छ्रा समीरिता |
वृद्धे त्वसाध्या विज्ञेया मतं धन्वन्तरेरिदम्) ||१||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने ग्रहणीरोगनिदानं समाप्तम् ||४||