38. गलगण्डगण्डमालापची ग्रन्थ्यर्बुदनिदानम्
गलगण्डस्य सामान्यलक्षणम्
अथ गलगण्ड-गण्डमालापची-ग्रन्थ्यर्बुदनिदानम् |
निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले |
महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् ||१||
(सु. नि. अ. ११) |
गलगण्डसम्प्राप्तिः
वातः कफश्चापि गले प्रदुष्टो मन्ये च संश्रित्य तथैव मेदः |
कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः ||२||
(सु. नि. अ. ११) |
वातजगलगण्डलक्षणम्
तोदान्वितः कृष्णसिरावनद्धः श्यावोऽरुणो वा पवनात्मकस्तु |
पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात्कदाचित् ||३||
वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः |४|
(सु. नि. अ. ११) |
श्लेष्मजगलगण्डलक्षणम्
स्थिरः सवर्णो गुरुरुग्रकण्डूः शीतो महांश्चापि कफात्मकस्तु ||४||
चिराभिवृद्धिं भजते चिराद्वा प्रपच्यते मन्दरुजः कदाचित् |
माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः ||५||
(सु. नि. अ. ११) |
मेदोजगलगण्डलक्षणम्
स्निग्धो गुरुः पाण्डुरनिष्टगन्धो मेदोभवः कण्डुयुतोऽल्परुक् च |
प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः ||६||
स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽनुशब्दं कुरुते च नित्यम् |७|
(सु. नि. अ. ११) |
गलगण्डस्यासाध्यलक्षणम्
कृच्छ्राच्छ्वसन्तं मृदुसर्वगात्रं संवत्सरातीतमरोचकार्तम् ||७||
क्षीणं च वैद्यो गलगण्डयुक्तं भिन्नस्वरं चापि विवर्जयेच्च |८|
(सु. नि. अ. ११) |
गण्डमालालक्षणम्
कर्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागलवङ्क्षणेषु ||८||
मेदःकफाभ्यां चिरमन्दपाकैः स्याद्गण्डमाला बहुभिश्च गण्डैः |९|
(सु. नि. अ. ११) |
अपचीलक्षणम्
ते ग्रन्थयः केचिदवाप्तपाकाः स्रवन्ति नश्यन्ति भवन्ति चान्ये ||९||
कालानुबन्धं चिरमादधाति सैवापचीति प्रवदन्ति तज्ज्ञाः |
साध्याः स्मृताः पीनसपार्श्वशूलकासज्वरच्छर्दियुतास्त्वसाध्याः ||१०||
ग्रन्थेर्लक्षणम्
वातादयो मांसमसृक् प्रदुष्टाः सन्दूष्य मेदश्च तथा सिराश्च |
वृत्तोन्नतं विग्रथितं च शोथं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ||११||
(सु. नि. अ. ११) |
वातजग्रन्थिलक्षणम्
आयम्यते वृश्च्यति तुद्यते च प्रत्यस्यते मथ्यति भिद्यते च |
कृष्णो मृदुर्बस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् ||१२||
(सु. नि. अ. ११) |
पित्तजग्रन्थिलक्षणम्
दन्दह्यते धूप्यति वृश्च्यते च पापच्यते प्रज्वलतीव चापि |
रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नः स्रवेदुष्णमतीव चास्रम् ||१३||
(सु. नि. अ. ११) |
कफजग्रन्थिलक्षणम्
शीतोऽविवर्णोऽल्परुजोऽतिकण्डुः पाषाणवत् संहननोपपन्नः |
चिराभिवृद्धश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनं च पूयम् ||१४||
(सु. नि. अ. ११) |
मेदोजग्रन्थिलक्षणम्
शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महान् कण्डुयुतोऽरुजश्च |
मेदःकृतो गच्छति चात्र भिन्ने पिण्याकसर्पिःप्रतिमं तु मेदः ||१५||
(सु. नि. अ. ११) |
सिराजग्रन्थेः सम्प्राप्तिः लक्षणं च
व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुस्तु सिराप्रतानम् |
सङ्कुच्य सम्पिण्ड्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् ||१६||
ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात् सरुजश्चलश्च |
स चारुज श्चाप्यचलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः ||१७||
(सु. नि. अ. ११) |
अर्बुदसम्प्राप्तिः
गात्रप्रदेशे क्वचिदेव दोषाः सम्मूर्छिता मांसमसृक् प्रदूष्य |
वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्यपाकम् ||१८||
कुर्वन्ति मांसोच्छ्रयमत्यगाधं तदर्बुदं शास्त्रविदो वदन्ति |
वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा वा ||१९||
तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि तदा भवन्ति |२०|
(सु. नि. अ. ११) |
रक्तार्बुदलक्षणम्
दोषः प्रदुष्टो रुधिरं सिराश्च सङ्कुच्य सम्पिण्ड्य ततस्त्वपाकम् ||२०||
सास्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैराचितमाशुवृद्धम् |
करोत्यजस्रं रुधिरप्रवृत्तिमसाध्यमेतद्रुधिरात्मकं तु ||२१||
रक्तक्षयोपद्रवपीडितत्वात् पाण्डुर्भवेदर्बुदपीडितस्तु |
(सु. नि. अ. ११) |
मांसार्बुदस्य सम्प्राप्तिपूर्वकं लक्षणम्
मुष्टिप्रहारादिभिरर्दितेऽङ्गे मांसं प्रदुष्टं जनयेद्धि शोथम् ||२२||
अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम् |
प्रदुष्टमांसस्य नरस्य गाढमेतद्भवेन्मांसपरायणस्य ||२३||
मांसार्बुदं त्वेतदसाध्यमुक्तं... |
(सु. नि. अ. ११) |
असाध्यार्बुदम्
...साध्येष्वपीमानि तु वर्जयेच्च |
सम्प्रस्रुतं मर्मणि यच्च जातं स्रोतःसु वा यच्च भवेदचाल्यम् ||२४||
(सु. नि. अ. ११) |
अध्यर्बुदलक्षणम्
यज्जायतेऽन्यत् खलु पूर्वजाते ज्ञेयं तदद्ध्यर्बुदमर्बुदज्ञैः |
यद्द्वन्द्वजातं युगपत् क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् ||२५||
(सु. नि. अ. ११) |
अर्बुदानां पाकाभावे हेतुः
न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु |
दोषस्थिरत्वाद्ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु ||२६||
(सु. नि. अ. ११) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने गलगण्डगण्डमालापचीग्रन्थ्यर्बुदनिदानं समाप्तम् ||३८||