19. दाहनिदानम्

मद्यजदाहलक्षणम्
अथ दाहनिदानम्|
त्वचं प्राप्तः स पानोष्मा पित्तरक्ताभिमूर्छितः |
दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ||१||

रक्तजदाहलक्षणम्
कृत्स्नदेहानुगं रक्तमुद्रिक्तं दहति ध्रुवम् |
स उष्यते तृष्यते च ताम्राभस्ताम्रलोचनः ||२||
लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते |
(सु. उ. तं. अ. ४७) |

पित्तजदाहलक्षणम्
पित्तज्वरसमः पित्तात्स चाप्यस्य विधिः स्मृतः ||३||
(सु. उ. तं. अ. ४७) |

तृष्णानिरोधजदाहलक्षणम्
तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् |
सबाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतसः ||४||
संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य वेपते |
(सु. उ. तं. अ. ४७) |

रक्तपूर्णकोष्ठजदाहलक्षणम्
असृजः पूर्णकोष्ठस्य दाहोऽन्यः स्यात् सुदुःसहः ||५||
(सु. उ. तं. अ. ४७) |

धातुक्षयजदाहलक्षणम्
धातुक्षयोत्थो यो दाहस्तेन मूर्छातृडर्दितः |
क्षामस्वरः क्रियाहीनः स सीदेद्भृशपीडितः ||६||
(सु. उ. तं. अ. ४७) |

क्षतजदाहलक्षणं, मर्माभिघातजदाहलक्षणं, दाहानामसाध्यलक्षणं च
क्षतजोऽनश्नतश्चान्नं शोचतो वाऽप्यनेकधा |
तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्छाप्रलापवान् ||७||
मर्माभिघातजोऽप्यस्ति सोऽसाध्यः सप्तमो मतः |
सर्व एव च वर्ज्याः स्युः शीतगात्रस्य देहिनः ||८||
(सु. उ. तं. अ. ४७) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने दाहनिदानं समाप्तम् ||१९||