44.  भग्ननिदानम्

भग्नस्य द्वैविध्यम्
अथ भग्ननिदानम् |
भग्नं समासाद्द्विविधं हुताश काण्डे च सन्धौ च हि तत्र सन्धौ |
उत्पिष्टविश्लिष्टविवर्तितं च तिर्यग्गतं क्षिप्तमधश्च षट् च ||१||

सन्धिभग्नस्य सामान्यलिङ्गम्
प्रसारणाकुञ्चनवर्तनोग्रा रुक् स्पर्शविद्वेषणमेतदुक्तम् |
सामान्यतः सन्धिगतस्य लिङ्गम्... |२|

उत्पिष्ट-विश्लिष्ट-विवर्तित-तिर्यग्गत-क्षिप्तलिङ्गम्
...उत्पिष्टसन्धेः श्वयथुः समन्तात् ||२||
विशेषतो रात्रिभवा रुजा च, विश्लिष्टजे तौ च रुजा च नित्यम् |
विवर्तिते पार्श्वरुजश्च तीव्रास्तिर्यग्गते तीव्ररुजो भवन्ति ||३||
क्षिप्तेऽतिशूलं विषमत्वमस्थ्नोः क्षिप्ते त्वधो रुग्विघटश्च सन्धेः |

काण्डे भग्नस्य लिङ्गम्
काण्डे त्वतः कर्कटकाश्वकर्णविचूर्णितं पिच्चितमस्थिछल्लिका ||४||
काण्डेषु भग्नं ह्यतिपातितं च मज्जागतं च स्फुटितं च वक्रम् |
छिन्नं द्विधा द्वादशधाऽपि काण्डे स्रस्ताङ्गता शोथरुजातिवृद्धिः ||५||
सम्पीड्यमाने भवतीह शब्दः स्पर्शासहं स्पन्दनतोदशूलाः |
सर्वास्ववस्थासु न शर्मलाभो भग्नस्य काण्डे खलु चिह्नमेतत् ||६||

काण्डे भग्नस्य द्वादशप्रकारादप्यधिकत्वम्
भग्नं तु काण्डे बहुधा प्रयाति समासतो नामभिरेव तुल्यम् ||७||

भग्नस्य साध्यविचारः
अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च |
उपद्रवैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ||८||
(सु. चि. अ. ३) |

भग्नस्यासाध्यविचारः
भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम् |
जघनं प्रतिपिष्टं च वर्जयेद्धि विचक्षणः ||९||
असंश्लिष्टकपालं च ललाटे चूर्णितं च यत् |
भग्नं स्तनान्तरे पृष्ठे शङ्खे मूर्ध्नि च वर्जयेत् ||१०||
(सु. नि. अ. १५) |

सर्वेषां भग्नानामनवधानतोऽसाध्यत्वम्
सम्यक् सन्धितमप्यस्थि दुर्निक्षेपनिबन्धनात् |
सङ्क्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत् ||११||
(सु. नि. अ. १५) |

अस्थिविशेषेण भग्नविशेषः
तरुणास्थीनि नम्यन्ते भिद्यन्ते नलकानि च |
कपालानि विभज्यन्ते स्फुटन्ति रुचकानि च ||१२||
(सु. नि. अ. १५) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने भग्ननिदानं समाप्तम् ||४४||