3. अतीसारनिदानम्

अतिसारनिदानम्
अथातीसारनिदानम् |
गुर्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः |
विरुद्धाध्यशनाजीर्णैर्विषमैश्चापि भोजनैः ||१||
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः |
शोकाद्दुष्टाम्बुमद्यातिपानैः सात्म्यर्तुपर्ययैः ||२||
जलाभिरमणैर्वेगविघातैः क्रिमिदोषतः |
नृणां भवत्यतीसारो लक्ष्णं तस्य वक्ष्यते ||३||
(सु. उ. तं. अ. ४०) |

अतिसारसम्प्राप्तिः भेदाश्च
संशम्यापान्धातुरग्निं प्रवृद्धः शकृन्मिश्रो वायुनाऽधः प्रणुन्नः |
सरत्यतीवातिसारं तमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति |
एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः ||४||
(सु. उ. तं. अ. ४०) |

अतिसारपूर्वरूपम्
हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधाः |
विट्सङ्ग आध्मानमथाविपाका भविष्यतस्तस्य पुरःसराणि ||५||
(सु. उ. तं. अ. ४०) |

वातातिसारलक्षणम्
अरुणं फेनिलं रूक्षमल्पमल्पं मुहुर्मुहुः |
शकृदामं सरुक्शब्दं मारुतेनातिसार्यते ||६||

पित्तातिसारलक्षणम्
पित्तात् पीतं नीलमालोहितं वा तृष्णामूर्छादाहपाकोपपन्नम् |७|
(सु. उ. तं. अ. ४०) |

श्लेष्मातिसारलक्षणम्
शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं विस्रं शीतं हृष्टरोमा मनुष्यः ||७||
(सु. उ. तं. अ. ४०) |

त्रिदोषजातिसारलक्षणम्
वराहस्नेहमांसाम्बुसदृशं सर्वरूपिणम् |
कृच्छ्रसाध्यमतीसारं विद्याद्दोषत्रयोद्भवम् ||८||

शोकातिसारलक्षणम्
तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पोष्मा वै वह्निमाविश्य जन्तोः |
कोष्ठं गत्वा क्षोभयेत्तस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम् ||९||
निर्गच्छेद्वै विड्विमिश्रं ह्यविड्वा निर्गन्धं वा गन्धवद्वाऽतिसारः |
शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः ||१०||
(सु. उ. तं. अ. ४०) |

आमातिसारलक्षणम्
अन्नाजीर्णात् प्रद्रुताः क्षोभयन्तः कोष्ठं दोषा धातुसङ्घान्मलांश्च |
नानावर्णं नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति ||११||
(सु. उ. तं. अ. ४०) |

मलस्यामलक्षणं पक्वलक्षणं च
संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति |
पुरीषं भृशदुर्गन्धि पिच्छिलं चामसञ्ज्ञितम् ||१२||
एतान्येव तु लिङ्गानि विपरीतानि यस्य वै |
लाघवं च विशेषेण तस्य पक्वं विनिर्दिशेत् ||१३||
(सु. उ. तं. अ. ४०) |

अतिसारस्यासाध्यलक्षणानि
पक्वजाम्बवसङ्काशं यकृत्खण्डनिभं तनु |
घृततैलवसामज्जवेशवारपयोदधि ||१४||
मांसधावनतोयाभं कृष्णं नीलारुणप्रभम् |
मेचकं स्निग्धकर्बूरं चन्द्रकोपगतं घनम् ||१५||
कुणपं मस्तुलुङ्गाभं सुगन्धि कुथितं बहु |
तृष्णादाहतमःश्वासहिक्कापार्श्वास्थिशूलिनम् ||१६||
सम्मूर्छारतिसम्मोहयुक्तं पक्ववलीगुदम् |
प्रलापयुक्तं च भिषग्वर्जयेदतिसारिणम् ||१७||
असंवृतगुदं क्षीणं दूराध्मातमुपद्रुतम् |
गुदे पक्वे गतोष्माणमतिसारकिणं त्यजेत् ||१८||
(सु. उ. तं. अ. ४०) |
श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम् |
विशेषेण नरं वृद्धमतीसारो विनाशयेत् ||१९||
(सु. सू. अ. ३३) |
(शोथं शूलं ज्वरं तृष्णां कासं श्वासमरोचकम् |
छर्दिं मूर्छां च हिक्कां च दृष्टावातीसारिणं त्यजेत्) |

रक्तातिसारलक्षणम्
पित्तकृन्ति यदाऽत्यर्थं द्रव्याण्यश्नाति पैत्तिके |
तदोपजायतेऽभीक्ष्णं रक्तातीसार उल्बणः ||२०||

प्रवाहिकासम्प्राप्तिः
वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य |
प्रवाहतोऽल्पं बहुशो मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः ||२१||
(सु. उ. तं. अ. ४०) |

वातजादिभेदेन प्रवाहिकालक्षणानि
प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च |
सशोणिता शोणितसम्भवा च ताः स्नेहरूक्षप्रभवा मतास्तु |
तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च ||२२||
(सु. उ. तं. अ. ४०) |

निवृत्तातिसारलक्षणम्
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति |
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः ||२३||
(सु. उ. तं. अ. ४०) |
(ज्वरातीसारयोरुक्तं निदानं यत् पृथक् पृथक् |
तत्स्याज्ज्वरातिसारस्य तेन नात्रोदितं पुनः) ||१||

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदानेऽतीसारनिदानं समाप्तम् ||३||