5. अर्शोनिदानम्
अर्शसां षड्भेदाः
अथार्शोनिदानम् |
पृथग्दोषैः समस्तैश्च शोणितात् सहजानि च |
अर्शांसि षट्प्रकाराणि विद्याद्गुदवलित्रये ||१||
सम्प्राप्तिपूर्वकमर्शःस्वरूपम्
दोषास्त्वङ्मांसमेदांसि सन्दूष्य विविधाकृतीन् |
मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि तान् जगुः ||२||
(वा. नि. अ. ७) |
वातार्शोनिदानम्
कषायकटुतिक्तानि रूक्षशीतलघूनि च |
प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम् ||३||
लङ्घनं देशकालौ च शीतौ व्यायामकर्म च |
शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः ||४||
(च. चि. अ. १४) |
पित्तार्शोनिदानम्
कट्वम्ललवणोष्णानि व्यायामाग्न्यातपप्रभाः |
देशकालावशिशिरौ क्रोधो मद्यमसूयनम् ||५||
विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम् |
पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम् ||६||
(च. चि. अ. १४) |
श्लेष्मार्शोनिदानम्
मधुरस्निग्धशीतानि लवणाम्लगुरूणि च |
अव्यायामो दिवास्वप्नः शय्यासनसुखे रतिः ||७||
प्राग्वातसेवा शीतौ च देशकालावचिन्तनम् |
श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसाम् ||८||
(च. चि. अ. १४) |
द्वन्द्वजार्शोनिदानम्
हेतुलक्षणसंसर्गाद्विद्याद्द्वन्द्वोल्बणानि च |९|
त्रिदोषजार्शोनिदानम्
सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणं समम् ||९||
(च. चि. अ. १४) |
वातार्शोलक्षणम्
गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमचिमान्विताः |
म्लानाः श्यावारुणाः स्तब्धा विशदाः परुषाः खराः ||१०||
मिथो विसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः |
बिम्बीखर्जूरकर्कन्धूकार्पासीफलसन्निभाः ||११||
केचित् कदम्बपुष्पाभाः केचित् सिद्धार्थकोपमाः |
शिरःपार्श्वांसकट्यूरुवङ्क्षणाद्यधिकव्यथाः ||१२||
क्षवथूद्गारविष्टम्भहृद्ग्रहारोचकप्रदाः |
कासश्वासाग्निवैषम्यकर्णनादभ्रमावहाः ||१३||
तैरार्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम् |
रुक्फेनपिच्छानुगतं विबद्धमुपवेश्यते ||१४||
कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रश्च जायते |
गुल्मप्लीहोदराष्ठीलासम्भवस्तत एव च ||१५||
(वा. नि. अ. ७) |
पित्तार्शोलक्षणम्
पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः |
तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथाः ||१६||
शुकजिह्वायकृत्खण्डजलौकोवक्त्रसन्निभाः |
दाहपाकज्वरस्वेदतृण्मूर्छारुचिमोहदाः ||१७||
सोष्माणो द्रवनीलोष्णपीतरक्तामवर्चसः |
यवमध्या हरित्पीतहारिद्रत्वङ्नखादयः ||१८||
(वा. नि. अ. ७) |
श्लेष्मार्शोलक्षणम्
श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः |
उत्सन्नोपचितस्निग्धस्तब्धवृत्तगुरुस्थिराः ||१९||
पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः |
करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः ||२०||
वङ्क्षणानाहिनः पायुबस्तिनाभिविकर्षिणः |
सश्वासकासहृल्लासप्रसेकारुचिपीनसाः ||२१||
मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः |
क्लैब्याग्निमार्दवच्छर्दिरामप्रायविकारदाः ||२२||
वसाभसकफप्रायपुरीषाः सप्रवाहिकाः |
न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः ||२३||
(वा. नि. अ. ७) |
सन्निपातार्शसः सहजार्शसश्च लक्षणम्
सर्वैः सर्वात्मकान्याहुर्लक्षणैः सहजानि च |२४|
रक्तार्शोलक्षणम्
रक्तोल्बणा गुदेकीलाः पित्ताकृतिसमन्विताः ||२४||
वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः |
तेऽत्यर्थं दुष्टमुष्णं च गाढविट्कप्रपीडिताः ||२५||
स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः |
भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः ||२६||
हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः |
(वा. नि. अ. ७) |
विट् श्यावं कठिनं रूक्षमधोवायुर्न वर्तते ||२७||
रक्तार्शसो वातजादिभेदेन लक्षणानि
तनु चारुणवर्णं च फेनिलं चासृगर्शसाम् |
कट्यूरुगुदशूलं च दौर्बल्यं यदि चाधिकम् ||२८||
तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम् |
शिथिलं श्वेतपीतं च विट् स्निग्धं गुरु शीतलम् ||२९||
यद्यर्शसां घनं चासृक् तन्तुमत् पाण्डु पिच्छिलम् |
गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम् |
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः ||३०||
(च. चि. अ. १४) |
अर्शसां पूर्वरूपम्
विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च |
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता ||३१||
ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य च |
पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये ||३२||
(च. चि. अ. १४) |
अर्शसां समुत्पत्तौ वातादीनां सर्वेषामेव प्रकोपः
पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम् |
सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे ||३३||
तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च |
सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च ||३४||
(च. चि. अ. १४) |
अर्शसां साध्यासाध्यत्वादिविचारः
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च |
अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च ||३५||
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च |
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ||३६||
सहजानि त्रिदोषाणि यानि चाभ्यन्तरां वलिम् |
जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत् ||३७||
(च. चि. अ. १४) |
याप्यार्शोलक्षणम्
शेषत्वादायुषस्तानि चतुष्पादसमन्विते |
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा ||३८||
(च. चि. अ. १४) |
अर्शसामुपद्रवादसाध्यत्वम्
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा |
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽर्शसो हि सः ||३९||
हृत्पार्श्वशूलं सम्मोहश्छर्दिरङ्गस्य रुग्ज्वरः |
तृष्णा गुदस्य पाकश्च निहन्युर्गुदजातुरम् ||४०||
(च. चि. अ. १४) |
तृष्णा अरोचकशूलार्तमतिप्रस्रुतशोणितम् |
शोथातिसारसंयुक्तमर्शांसि क्षपयन्ति हि ||४१||
(सु. सू. अ. ३३) |
मेढ्रजादीनामर्शसां लक्षणम्
मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं, नाभिजानि च |
गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च ||४२||
(वा. नि. अ. ७) |
चर्मकीलसम्प्राप्तिः
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः |
कीलोपमं स्थिरखरं चर्मकीलं तु तद्विदुः ||४३||
(वा. नि. अ. ७) |
चर्मकीलस्य वातजादिभेदेन लक्षणानि
वातेन तोदपारुष्यं पित्तादसितवक्त्रता |
श्लेष्मणा स्निग्धता चास्य ग्रथितत्वं सवर्णता ||४४||
(वा. नि. अ. ७) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदानेऽर्शोनिदानं समाप्तम् ||५||