21. अपस्मारनिदानम्
अपस्मारसम्प्राप्तिः, सामान्यलक्षणं च
अथापस्मारनिदानम् |
(चिन्ताशोकादिभिर्दोषाः क्रुद्धा हृत्स्रोतसि स्थिताः |
कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते) |
तमःप्रवेशः संरम्भो दोषोद्रेकहतस्मृतेः |
अपस्मार इति ज्ञेयो गदो घोरश्चतुर्विधः ||१||
अपस्मारपूर्वरूपम्
हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्छा प्रमूढता |
निद्रानाशश्च तस्मिंश्च भविष्यति भवत्यथ ||२||
(सु. उ. तं. अ. ६१) |
वातिकापस्मारलक्षणम्
कम्पते प्रदशेद्दन्तान् फेनोद्वामी श्वसित्यपि |
परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात् ||३||
(च. चि. अ. १०) |
पैत्तिकापस्मारलक्षणम्
पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शकः |
सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः ||४||
(च. चि. अ. १०) |
श्लैष्मिकापस्मारलक्षणम्
शुक्लफेनाङ्गवक्त्राक्षः शीतहृष्टाङ्गजो गुरुः |
पश्येछुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात् ||५||
(च. चि. अ. १०) |
सान्निपातिकापस्मारलक्षणम् अपस्मारस्यासाध्यलक्षणं च
सर्वैरेतैः समस्तैश्च लिङ्गैर्ज्ञेयस्त्रिदोषजः |
अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ||६||
(च. चि. अ. १०) |
प्रतिस्फुरन्तं बहुशः क्षीणं प्रचलितभ्रुवम् |
नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् ||७||
अपस्मारप्रकोपकालः
पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः |
अपस्माराय कुर्वन्ति वेगं किञ्चिदथान्तरम् ||८||
(च. चि. अ. १०) |
देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित् |
शरदि प्रतिरोहन्ति तथा व्याधिसमुच्छ्रयाः ||९||
(सु. उ. तं. अ. ६१) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदानेऽपस्मारनिदानं समाप्तम् ||२१||