51. अम्लपित्तनिदानम्
अम्लपित्तस्य निदानपूर्वकं स्वरूपम्
अथाम्लपित्तनिदानम् |
विरुद्धदुष्टाम्लविदाहिपित्तप्रकोपिपानान्नभुजो विदग्धम् |
पित्तं स्वहेतूपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्तः ||१||
अम्लपित्तलक्षणम्
अविपाकक्लमोत्क्लेशतिक्ताम्लोद्गारगौरवैः |
हृत्कण्ठदाहारुचिभिश्चाम्लपित्तं वदेद्भिषक् ||२||
अधोगतस्याम्लपित्तस्य लक्षणम्
तृड्दाहमूर्छाभ्रममोहकारि प्रयात्यधो वा विविधप्रकारम् |
हृल्लासकोठानलसादहर्षस्वेदाङ्गपीतत्वकरं कदाचित् ||३||
ऊर्ध्वगस्याम्लपित्तस्य लक्षणम्
वान्तं हरित्पीतकनीलकृष्णमारक्तरक्ताभमतीव चाम्लम् |
मांसोदकाभं त्वतिपिच्छिलाच्छं श्लेष्मानुजातं विविधं रसेन ||४||
भुक्ते विदग्धे त्वथवाऽप्यभुक्ते करोति तिक्ताम्लवमिं कदाचित् |
उद्गारमेवंविधमेव कण्ठहृत्कुक्षिदाहं शिरसो रुजं च ||५||
करचरणदाहमौष्ण्यं महतीमरुचिं ज्वरं च कफपित्तम् |
जनयति कण्डूमण्डलपिडकाशतनिचितगात्ररोगचयम् ||६||
अम्लपित्तस्य साध्यत्वादिविचारः
रोगोऽयमम्लपित्ताख्यो यत्नात् संसाध्यते नवः |
चिरोत्थितो भवेद्याप्यः, कृच्छ्रसाध्यः स कस्यचित् ||७||
अम्लपित्ते दोषान्तरसंसर्गः, दोषभेदेनाम्लपित्तलक्षणानि च
सानिलं सानिलकफं सकफं तच्च लक्षयेत् |
दोषलिङ्गेन मतिमान् भिषङ्मोहकरं हि तत् ||८||
कम्पप्रलापमूर्छाचिमिचिमिगात्रावसादशूलानि |
तमसो दर्शनविभ्रमविमोहहर्षाण्यनिलकोपात् ||९||
कफनिष्ठीवनगौरवजडतारुचिशीतसादवमिलेपाः |
दहनबलसादकण्डूनिद्राश्चिह्नं कफानुगते ||१०||
उभयमिदमेव चिह्नं मारुतकफसम्भवे भवत्यम्ले |
तिक्ताम्लकटुकोद्गारहृत्कुक्षिकण्ठदाहकृत् ||११||
भ्रमो मूर्छारुचिश्छर्दिरालस्यं च शिरोरुजा |
प्रसेको मुखमाधुर्यं श्लेष्मपित्तस्य लक्षणम् ||१२||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदानेऽम्लपित्तनिदानं समाप्तम् ||५१||