6. अग्निमान्द्याजीर्णविसूचिकालसक विलम्बिका निदानम्
वाताद्याधिक्याज्जठरानलस्य चतुर्विधत्वम्
अथाग्निमान्द्याजीर्ण-विसूचिकालसक-विलम्बिकानिदानम् |
मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः |
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ||१||
विषमाद्यग्निभेदानां कार्यं, समाग्नि-मन्दाग्नि- विषमाग्नि-तीक्ष्णाग्निलक्षणानि च
विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमित्तजान् |
करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ||२||
समा समाग्नेरशिता मात्रा सम्यग्विपच्यते |
स्वल्पाऽपि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः ||३||
कदाचित् पच्यते सम्यक्कदाचिन्न विपच्यते |
मात्राऽतिमात्राऽप्यशिता सुखं यस्य विपच्यते |
तीक्ष्णाग्निरिति तं विद्यात् समाग्निः श्रेष्ठ उच्यते ||४||
अजीर्णभेदाः
आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः |
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ||५||
(सु. सू. अ. ४६) |
अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च |
वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम् ||६||
अजीर्णनिदानम्
अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च |
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ||७||
ईर्ष्याभयक्रोधपरिप्लुतेन लुब्धेन रुग्दैन्यनिपीडितेन |
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति ||८||
(सु. सू. अ. ४६) |
मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति |
चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरैः ||९||
(च. वि. अ. २) |
आमाजीर्ण-विदग्धाजीर्ण-विष्टब्धाजीर्ण- रसशेषाजीर्णलक्षणानि
तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटगः |
उद्गारश्च यथाभुक्तमविदग्धः प्रवर्तते ||१०||
विदग्धे भ्रमतृण्मूर्छाः पित्ताच्च विविधा रुजः |
उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते ||११||
विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः |
मलवाताप्रवृत्तिश्च स्तम्भो मोहाऽङ्गपीडनम् ||१२||
रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे |१३|
अजीर्णोपद्रवाः
मूर्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः |
उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः ||१३||
(सु. सू. अ. ४६) |
अजीर्णकारणेष्वतिमात्रभोजनस्य विशेषकारणत्वम्
अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः |
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि ||१४||
अजीर्णेभ्यो विसूच्यादिसम्भवः
अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम् |
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ||१५||
(सु. उ. तं. अ. ५६) |
विसूचिकानिरुक्ति
सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिलः |
यस्याजीर्णेन सा वैद्यैर्विसूचीति निगद्यते ||१६||
न तां परिमिताहारा लभन्ते विदितागमाः |
मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः ||१७||
(सु. उ. तं. अ. ५६) |
विसूचिकालक्षणम्
मूर्छाऽतिसारो वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः |
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ||१८||
(सु. उ. तं. अ. ५६) |
अलसकलक्षणम्
कुक्षिरानह्यतेऽत्यर्थं प्रताम्येत् परिकूजति |
निरुद्धो मारुतश्चैव कुक्षावुपरि धावति ||१९||
वातवर्चोनिरोधश्च यस्यात्यर्थं भवेदपि |
तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु ||२०||
(सु. उ. तं. अ. ५६) |
विलम्बिकालक्षणम्
दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य |
विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ||२१||
(सु. उ. तं. अ. ५६) |
अजीर्णजन्यस्यामस्य कार्यान्तरम्
यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः |
दोषेण येनावततं शरीरं तल्लक्षणैरामसमुद्भवैश्च ||२२||
(सु. उ. तं. अ. ५६) |
विसूच्यलसकयोरसाध्यलक्षणम्
यः श्यावदन्तौष्ठनखोऽल्पसञ्ज्ञो वम्यर्दितोऽभ्यन्तरयातनेत्रः |
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय ||२३||
(सु. उ. तं. अ. ५६) |
जीर्णाहारलक्षणं, विसूचिकाया उपद्रवाः, सामान्याजीर्णलक्षणं च
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः |
लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ||२४||
निद्रानाशोऽरतिः कम्पो मूत्राघातो विसञ्ज्ञता |
अमी ह्युपद्रवा घोरा विसूच्यां पञ्च दारुणाः ||२५||
प्रायेणाहारवैषम्यादजीर्णं जायते नृणाम् |
तन्मूलो रोगसङ्घातस्तद्विनाशाद्विनश्यति ||२६||
ग्लानिगौरवविष्टम्भभ्रममारुतमूढताः |
विबन्धो वा प्रवृत्तिर्वा सामान्याजीर्णलक्षणम् ||२७||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदानेऽग्निमान्द्याजीर्णविसूचिकालसकविलम्बिकानिदानं समाप्तम् ||६||